________________
REFERRESTERamanrassmateRTERE
SEEEEEEEEEEEEE
SEEEEEEEEEEEEE
AI
TETTERTER भि७IHR AIमायारी ) म अधुना मिथ्याकारसामाचारी निस्त्पयितुमारभ्यते । तत्रापि प्रथमं व्यवहारनयमतं प्रदर्शयति
जो मिच्छत्ति पओगो नियसंजमजोगदुप्पउत्तंमि । सो खलु मिच्छाकारो तुह सिद्धते समुवइट्ठो ॥१३॥ ___पञ्चसमितिषु त्रिगुप्तिषु भिक्षाटने वस्त्रप्रतिलेखने वस्त्रप्रक्षालने स्वाध्याये वैयावृत्येऽन्येषु वा संयमयोगेषु यदा जिनाज्ञाविरुद्धमाचरणं भवेत् । तदा साधुना “मिच्छा मि दुक्कडं, मिथ्या मे दुष्कृतं भूयात्, मम पापं मिथ्या भवतु, मत्पापं वितथं भवतु, मम दोषो निष्फलो भवतु, ममातिचारस्य नाशो भूयाद्"इति वा यो वाक्यप्रयोगो विधीयते, स मिथ्याकारप्रयोग एव मिथ्याकारसामाचारी तव वीरस्य सिद्धान्ते समुपदिष्टः। ___ व्यवहारनयो हि ब्रूते → "मम पापं मिथ्या भवतु" इत्यर्थसमन्वितानि कस्यामपि भाषायां समुच्चारितानि, कैश्चिदपि शब्दैर्ग्रथितानि सर्वाणि वाक्यानि मिथ्याकारसामाचारी भवन्ति । न हि → प्राकृतभाषायामेव, संस्कृतभाषायामेव, गुर्जरभाषायमेवाङ्ग्लभाषायामेव वा समुच्चरितानि "मम दुष्कृतं मिथ्याभूयाद्" इत्यर्थप्रतिपादकानि वाक्यानि मिथ्याकारसामाचारी - इति ममाग्रहः, तथा न → अमुकशब्दैरेव विरचितानि समुच्चरितानि वाक्यानि मिथ्याकारसामाचारी - इति ममाग्रहः । किन्तु कस्यामपि भाषायां कैश्चिदपि शब्दैर्युक्तानि वाक्यानि । मिथ्याकारसामाचारी भवन्ति । केवलं तत्र "मम दुष्कृतं मिथ्या भूयाद्" इत्यर्थः प्रतिपादित एष्टव्यः 1 इति ॥१३॥ के संप्रति निश्चयनयमतं प्रदर्शयति । कणेयो णिज्जरहेऊ मिच्छामिदुक्कडं इय पओगो । णिच्छयमिच्छाकारो तयट्ठसंपच्चयपउत्तो ॥१४॥
निश्चयनयो ब्रूते→ प्राकृतभाषायां "मिच्छा मि दुक्कडम्" इत्येवं क्रियमाणः शब्दप्रयोगो मिथ्याकारसामाचारी। न हि गुर्जरादिभाषाषु क्रियमाणः कोऽपि प्रयोगो मिथ्याकारसामाचारी । मिच्छा मि दुक्कडमित्यपि प्रयोगो यदा "मि" इत्यिक्षरस्य "च्छा" इत्यक्षरस्य "मि" इत्यक्षरस्य "दु" इत्यक्षरस्य "क" इत्यक्षरस्य "डं" इत्यक्षरस्य वक्ष्यमाणो योऽर्थस्तस्मिन्नर्थे उपयोगसहितः क्रियते, तदैव मिथ्याकारसामाचारी । प्रत्येकाक्षरस्य वक्ष्यमाणेषु अर्थेषूपयोगविहीनो मिच्छा मि दुक्कडमिति प्रयोगो न मिथ्याकारसामाचारी । तथा मिथ्या मे दुष्कृतं भूयादित्यादिरूपः संस्कृतादिभाषायां क्रियमाणः प्रयोगः शुभभावसहितोऽपि न मिथ्याकारसामाचारी । प्रत्येकाक्षरार्थोपयोगसमन्वितो मिच्छा मि दुक्कडमिति प्राकृतभाषायां क्रियमाणः प्रयोग एव मिथ्याकारसामाचारीति निष्कर्षः । अत्राक्षरार्थोपयोगवत्पदार्थोपयोगो वाक्यार्थोपयोगश्चापि ग्राह्यः । प्रत्येकाक्षरस्य प्रत्येकपदस्य वाक्यस्य चार्थोऽधुनैव प्रदर्शयिष्यते ॥१४॥
अधुना "मिच्छा मि दुक्कडं" इति प्रयोगे विद्यमानानां प्रत्येकाक्षराणामर्थं प्रतिपादयति । मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ । मि त्ति य मेराइठिओ दुति दुर्गच्छामि अप्पाणं ॥१५॥ । कत्ति कडं मे पावं डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छामिदुक्कडपयक्खरत्थो समासेणं ॥१६॥
___ 'मिच्छा मि दुक्कडं' इति वाक्यस्यार्थस्तावदयं → मया संयमयोगेषु जिनाज्ञाविरुद्धाचरणरूपं यद् दुष्कृतं * कृतं। तन्मम दुष्कृतं मिथ्या निष्फलं भवतु - इति ।
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SSSSSSSSSSSSSSSSSSSSSSSSSS
FGEHEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २०० Screen w eeeeeeeeeeeeeeee CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
GEEEE