________________
DEEPRETERMERRRRRRRREE
ARRIERENTIREMEDIERRIERRENERATIENTINES
छार साभायारी परं चारित्रमोहनीयोदयादिवशात्ते शक्तौ सत्यामपि चारित्रादिशुभयोगेषु प्रयत्नं न कुर्वन्ति । तस्मात्तेषां शुभो भावो विशिष्टं फलं न ददाति । अभव्यादयश्च दैविकादिसुखप्राप्त्यर्थं संयमयोगेषु स्वशक्त्यनुसारेण प्रयतन्ते, तस्मात्तेषां। 1 व्यवहारतः शक्तिनिगूहनं नास्ति । किन्तु सदनुष्ठानरागादिशुभभावो नास्तीति कृत्वा तेषां तत्शक्त्यनिगहनं न । मोक्षादिकं फलं ददाति ।
किन्तु येषां समीपे शुभो भावो शक्त्यनिगूहनञ्च वर्तेते, तेषामवश्यं शास्त्रोक्तं फलं मीलति । तत्र सर्वासामपि जिनाज्ञानां पालने दृढोऽभिलाषः शुभभावरूपो ज्ञेयः । स्वशरीरसामर्थ्यानुसारेण च सम्यग्जिनाज्ञापालनं शक्त्यनिगूहनं मन्तव्यम् । इत्थञ्च त्रिकालभोजिनोऽपि कुरगडुमुनेः शक्त्यनिगूहनविशिष्टशुभभावसद्भावात्केवलज्ञानं प्रादुरभूत् । इत्थञ्च नमस्कारसहितमात्रमेव सर्वजघन्यं प्रत्याख्यानं कुर्वाणानामपि यदि तादृश्येव शक्तिरस्ति, आचामाम्लोपवासादिकरणस्य च तीव्रोऽभिलाषो वर्तते, तर्हि तेषामपि चारित्रं तज्जन्या निर्जरा च भवत्येव। तथा वृद्धत्वादिकारणवशात्स्थिरवासिनामपि साधूनां शास्त्रोक्त विहारकरणाभावेऽपि तत्करणाभिलाषुकाणां स्थिरवासेऽपि महती निर्जरा । किं बहुना ? यथा यथा शक्त्यनिगूहनं शुभो भावश्च वर्धते, तथा तथा परमपदं सम्मुखं भवतीति जिनवचनरहस्यम् ॥१२॥
समाप्ता प्रथमेच्छाकारसामाचारी ।
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
1 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०५ ELEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE