________________
H
E ROINE
७I812 सामायारी ARY गुरुस्तु प्रत्युत्तरयति । इच्छाकारं किच्चा अदीणमणसस्स लद्धिविरहे वि । विउलो णिज्जरलाभो होइ धुवं भावदाणेणं ॥१२॥ __ अहं स्वेच्छया भवदनुज्ञां प्राप्य भवदर्थमाहारादिकमानयामीतीच्छाकारं कृत्वा यदि पश्चात् लब्ध्याद्यभावादाहारप्राप्तिर्न भवेत्, तदापि यः साधुः पश्चात्तापं न करोति यथा “मिथ्या मे भिक्षाटनं सञ्जातं यत्प्रभूतकालमटित्वाऽपि न तत्साधुप्रायोग्यमाहारादिकं लब्धम्" इत्यादि । तस्य ग्लानादिसाधवे तदुचिताहाराद्यदानेऽपि "भावतस्तेन तस्मै साधवे दानं दत्तम्" इति निश्चितं विपुलो निर्जरालाभो भवति । । यस्तु साधुस्तदा मिथ्यैव पश्चात्तापं करोति, स तु सूक्ष्मबुद्धिविरहितो वैयावृत्यकर इव प्रत्युत पापकर्म , 1 बध्नाति । तथा हि कश्चित्साधुः "कस्यापि ग्लानसाधोः वैयावृत्यं कृत्वैव भोजनं कर्तव्यम्" इत्यभिग्रह से गृहीतवान्। एकदा तु तस्मिन्गच्छे कोऽपि साधुग्र्लानो नासीत्, ततश्च तद्दिने तस्य वैयावृत्यकरणलाभो नाऽभवत्।।
स तु मूढो चिन्तितवान् "अहो मेऽधन्यता, यन्मयाऽद्य वांछितं न लब्धं । यदि कश्चित्साधुःग्लानः स्यात्तर्हि मम तवैयावृत्यकरणलाभो भवेत् । अद्य तु मम दिवसो निरर्थकः सञ्जात" इति । एवमत्रापि रत्नाधिकादिप्रायोग्यस्य वस्तुनोऽलाभेऽपि मिथ्या पश्चात्तापो न करणीयः । यतः साधोस्तीव्रः शुभपरिणाम एव निर्जराजनकः । प्रायोग्याहारादिदाने यदि यशःकीर्त्याद्यभिलाषो भवेत् तदा तु तद्दानं मिथ्यैव स्यात् विषानुष्ठानमपि च संभवेत्।। तथा प्रायोग्याहारादिदानं यदा निर्जरां जनयेत्तदापि महतीमेव निर्जरां जनयेदिति न नियमः । यदि दातुः। परिणामस्तीव्रः शुभो भवेत् तदा तु सामान्यद्रव्यदानेऽपि महती निर्जरा भवति । दातुस्तथाविधतीव्रशुभपरिणामाभावे विपरीतपरिणामभावे वा सर्वोत्कृष्टाहारादिदानमपि स्वल्पामेव निर्जरां पापकर्म बन्धं वा जनयेत् ।। तस्मादलब्ध्याद्यभावे सति प्रायोग्यद्रव्यादिप्राप्त्यभावेऽपि इच्छाकारप्रयोगकर्तुस्साधोरवश्यं विपुला निर्जरा भवत्येवेति न तत्रेच्छाकारप्रयोगस्य भिक्षाटनस्य वा वैयर्थ्यमिति मन्तव्यम् । ___इदन्तु बोध्यम् । प्राधुर्णकानां रत्नाधिकानां वा भक्त्यर्थं निर्दोषमेवाहारादिकं समानेतव्यम् । न हि निष्कारणं केवलभक्त्यर्थं स्थापनादिदोषदुष्टमाहारादिकमानीय क्रियमाणा भक्तिः सफला भवति । प्रत्युत जिनाज्ञालो पात्महानर्थकर्येव भवति सा । यदा च कस्यचित्साधोः रोगादिकारणवशात्तदतद्वस्तु नियमादानेतव्यं स्यात् । तदाऽपि प्रथमं निर्दोषमेव वस्तु ग्राह्यम् । तल्लाभाभावे पुनः शास्त्रोक्तयतनया यथाऽल्पदोषो भवेत्तथैवानेयम् । एवं
संयमेऽस्थिराणां मनोज्ञाहारादिषु समासक्तानां साधूनां स्थिरीकरणार्थमसमाधिनिवारणार्थञ्च गीतार्थसाधूनां व तत्तद्दोषदुष्टं वस्तु समानेतुं कल्पते । किं बहुनोक्तेन ? यथा यदा संविज्ञगीतार्थाः कथयन्ति, तथा तदा कर्तव्यं ।।
परलोकार्थिना मुमुक्षुणा। ___ननु "रत्नाधिकादिभ्यः प्रायोग्यद्रव्याद्यदानेऽपि शुभभावमात्रेण महती निर्जरा भवत्येव" इति यत्प्रतिपादितं तत्तु न सम्यगवबुध्यामः । कुरुष्व कृपां, करोत्वत्र प्रकाशमिति चेत् श्रुणु।
शक्त्यनिगूहनविशिष्टो भावोऽवश्यं फलं ददातीति लोकोत्तरशासनस्य तात्विको नियमः । सम्यग्दृष्टिनां यद्यपि चारित्रं प्रति शुभो भावो वर्तते, मिथ्यादृशामपि च लघुकर्मणां हेयत्यागे धर्मस्वीकारे च शुभो भावो जायते।
FREETTERRESTERESTTERRESTED
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २०४ RORRRRRRRRRRRRRRRRRRRIEEEEEEEEEEEmassassesOSEROLORSTORISIONE