________________
mm
HEATREEN
N ER मिWIR सामायारी a तत्र “मि" इति प्रथमाक्षरस्यार्थस्तु मृदुता मार्दवञ्च । तत्र मृदुता कायनम्रतारूपा, मार्दवञ्च भावनम्रतारूपम्। र तत्रापि मस्तकादिनमनं कायनम्रता, अभिमानादिदोषपरिहारस्तु भावनम्रता ।
तथा "च्छा" इति द्वितीयाक्षरस्यार्थस्तु सेवितानामसंयमरूपदोषाणां पुनरनासेवनमिति । “योऽसंयमदोषो। मया सेवितस्तं न पुनरहं सेविष्य" इत्यपुनःकरणप्रतिज्ञा द्वितीयाक्षरार्थः इति तात्पर्यम् ।
तथा "मि" इति तृतीयाक्षरस्यार्थस्तु चारित्रमर्यादायां स्थिरतारूपः । "न ह्यहमसंयमस्थाने वर्तमान एव मिथ्याकारसामाचारी पालयामि । किन्तु प्रमादादिदोषवशाद् यद्यप्यसंयमस्थानेऽहं पूर्वं प्रवृतोऽभवम् । अधुना तु र तस्मान्निवृत्तः सन् चारित्रमर्यादायां स्थितवानस्मि" इति भावार्थः ।
तथा "दु" इति चतुर्थाक्षरस्यार्थस्तु स्वात्मनः पापकारिणो निन्दारूप: । "दुष्कृतकर्मकारिणमात्मानमहं निन्दामि" इति भावार्थः ।।
तथा 'क्क' इति पञ्चमाक्षरार्थस्तु पापस्वीकाररूपः । "मयैवैतत्पापं कृतं । न कस्याप्यन्यस्य विद्यमानमपि र दोषमत्राहं पश्यामि । न वा लोकनिन्दादिभयादात्मानं स्वकृतदुष्कृताद् गोपयामि" इति तात्पर्यम् ।
तथा 'डं' इति षष्ठाक्षरार्थस्तु प्रशमभावेन पापलङ्घनरूपः । “यद्यपि मया प्रमादादिदोषवशात्कृतं पापं, किन्तु सम्प्रति प्रशमभावसमन्वितोऽहं तं पापं शुभपरिणामकुठारेण छिनद्मि" इति भावार्थः ।
इत्थञ्च षण्णामक्षराणां प्रतिपादिताः षडाः समुदायरूपाः क्रियन्ते । तदा तु वाक्यत्रिकं भवति । तथा हि
(१) नतमस्तकोऽभिमानादिदोषशून्यश्चारित्रमर्यादायां स्थितोऽपुनःकरणप्रतिज्ञासमन्वितोऽहं दुष्कृतकारिणं स्वात्मानं निन्दामि।
(२) एतद् दुष्कृतं मयैव कृतं नान्येन । (३) तच्चाधुनोपशमभावेन लवयामि । मस्तकनमनादिक्रियां विना सर्वोत्कृष्टः शुभो भावो न प्रायः प्रादुर्भवतीति अवश्यं मस्तकनमनं कार्यम् ।
मस्तकनमनादिक्रियाकरणेऽपि यदि हृदयेऽभिमानमायायिदोषा भवेयुः । तदा न मिथ्याकारसामाचारी तात्त्विकी स्यात्प्रत्युत कर्मबन्धकारिणी स्यात् इत्यभिमानमायादिदोषनिवारणं कर्तव्यम्।
अचारित्रे स्थितस्य मिथ्याकारसामाचारी हि वेश्यागृहे स्थितेन क्रियमाणस्य ब्रह्मचर्यप्रभाववर्णनस्य सदृशीति चारित्रमर्यादायां स्थित्वैव मिथ्याकारसामाचारी करणीया । ___अधुना यद्यपि चारित्रमर्यादायां स्थितः, किन्तु यदि पुनरपि तेष्वेव सेवितेषु दोषेषु पुनर्गच्छेत्, तदा तु मिथ्याकारसामाचारी वास्तविकी न भवेत् । तस्मादपुनःकरणनियमो ग्राह्यः ।
दुष्कृतकर्मकारिणः स्वात्मनो निन्दां विना दुष्कृतेषु हेयत्वबुद्धिस्तत्त्यागसंकल्पश्च चिरस्थायिनौ न भवत में इत्यवश्यं स्वात्मनिन्दनं कार्यम् । ____ यदि "मयैवैतत्पापं कृतम्" इति हृदयेन स्वीकारो न क्रियते, तदा तु तीव्रपश्चात्तापभाव एव न भवति ।। पापस्वीकारेऽपि "यथा मयेदं कृतं, तथाऽन्यैरपि कृतं, नाहं केवलमेकएवेदं पापं सेवितवान्, किन्तु भूयांसो मया सह पापकारिणोऽभवान्" इत्यादिना परानपि दुष्टरूपेण प्रकटान्कुर्वाणस्य सा मिथ्याकारसामाचारी न तथाविध
EEEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २०७ WERESHEESECRETSGEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE8888888RESEEEEEDS