SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ મિચ્છાકાર સામાચારી विपुलनिर्जराकारी स्यादिति स्वेन यावत्पापं कृतं, तस्य स्वीकारः कर्तव्यः, परेषां दोषवतामपि निरूपणं तदा न कार्यम् । दोषस्वीकारे च महान्लाभः । तदुक्तमुपदेशमालायां पडिवज्जिऊण दोसे नियये सम्मं च पायपडियाए, तो किर मिगावइए उप्पन्नं केवलं नाणं ← निजान्दोषान् स्वीकृत्य चन्दनार्यायाः पादयोः पतितया मृगावत्या तदा केवलज्ञानं समर्जितमिति गाथाभावार्थः । चण्डरुद्राचार्यस्य शिष्यः, कुरगडुमुनिरन्ये च बहवो दृष्टान्ताऽत्र विषये परिभावनीयाः । वीर्योल्लासादिर्यदि न भवेत्तदा परमपदं प्रति पदमात्रगमनमपि दुर्लभम् । तस्मादत्रावश्यमहमधुना शुभभावयुक्तः कृतं दुष्कृतं लङ्घयामि, नात्र मम कश्चित्संदेह इत्यादि रूपो भावो मनसि धर्त्तव्यः । इत्थञ्च प्रतिपादितेष्वक्षरार्थेषु वाक्यार्थेषु चोपयोगवता जीवेन यः "मिच्छा मि दुक्कडं" इति प्रयोगः क्रियते स एव मिथ्याकारसामाचारी । स एव च विपुलनिर्जराकारीति निश्चयनयाभिप्रायः ||१६|| अत्रान्तरे शिष्यः प्रश्नयति ननु निश्चयनयस्यायमभिप्रायः कदाग्रहरूप एव । किं मिथ्या मे दुष्कृतं भूयादित्यादिरूपाणां संस्कृतादिभाषाप्रयोगाणां करणे शुभो भावो न भवति ? भवत्येव । प्रत्युतास्माकन्तु गुर्जरादिभाषाप्रयोगेष्वेवाधिकः शुभो भावो जायते । न तु "मिच्छामि दुक्कडं" इति प्रयोगे । तत्किमनेन दुराग्रहेण प्रयोजनम् ← इति । आचार्यः प्रत्युत्तरयति । आणाराहणजोगो तत्तो पुण होइ तिव्वसंवेगो । अइविउलणिज्जरट्ठा अपूणकरणसंगओ एसो ॥१७॥ "मिच्छामि दुक्कडं" इति प्रयोगे विद्यमानानां प्रत्येकाक्षराणां सम्यगर्थं ज्ञात्वा तदुपयोगसमन्वितेन जीवेन मिथ्याकारसामाचारी परिपालनीयेति ह्यावश्यकनिर्युक्तिकारभद्रबाहुस्वामिन आवश्यकचूर्णिकारजिनदासगणिनो हरिभद्रसूरेश्चाज्ञा । सा चाज्ञा तत्त्वतो जिनाज्ञैव । न हि ते महात्मानो जिनवचनविरुद्धं किमपि भाषन्ते । इत्थञ्च प्रत्येकाक्षरार्थोपयोगसहितेन जीवेन प्राकृतभाषायां मिथ्याकारसामाचारीपालने जिनाज्ञाया आराधना कृता भवति । गुर्जरादिभाषाषु ये वाक्यप्रयोगाः क्रियन्ते, तत्र तु प्रतिपादितानां प्रत्येकाक्षरार्थानामुपयोगः कथं भवेत् ? तत्र तेषामक्षराणामेवाभावेन तदर्थोपयोगस्याप्यभावात् । इत्थञ्च तत्र जिनाज्ञाया आराधना कृता न भवति । तथा प्रत्येकाक्षरार्थेषूपयोगसमन्वितस्य जीवस्य हि तद्वाक्यप्रयोगकाले तीव्रसंवेगः समुद्भवति, न हि तादृशस्तीव्रसंवेगो गुर्जरादिभाषाप्रयोगकाले भवति । तदा तथाविधस्य प्रत्येकाक्षरार्थोपयोगस्यैवाभावात् । ननु मनसि प्राकृतप्रयोगस्यान्तवर्तिनामक्षराणामर्थेषूपयोगं दत्त्वा बहिर्गुजरवाक्यप्रयोगो यदि क्रियते ? तदा को दोष इति चेत् अहोऽज्ञानजाड्यम् । प्रायशो हि मनोगतभावानुसार्येव वाक्यप्रयोगः प्रादुर्भवति । कार्मग्रन्थिकपदार्थेषु तीव्रोपयोगकाल एव न्यायदर्शनपदार्थानां निरूपणं बहिः संभवति । न वा यदा कार्मग्रन्थिकपदार्थनिरूपणस्य श्रवणे तीव्रोपयोगो भवति, तदा मनसि न्यायपदार्थचिन्तनं शक्यम् । तस्माद्यदि प्राकृतप्रयोगस्यान्तवर्तिनामक्षराणामर्थेषूपयोगो वर्तते, तर्हि बर्हिगुजर्रभाषाप्रयोगेण किं प्रयोजनं ? किं तत्र प्राकृतवाक्यप्रयोग एव न क्रियते ? यच्च भवता प्रतिपादितं → अस्माकं गुर्जरप्रयोगेष्वेव विपुलः शुभो भावः संजायते, न प्राकृतवाक्यप्रयोगे महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०८
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy