________________
BarsatssammtFERRRRRREstrea
HHEEEEEEEEEEEEEEEEEEEEEEE
KommeREEmmmmmmm WISार साभायारी ભાવથી તો સાધુને ગોચરીનું દાન કર્યું જ છે. એટલે એને અવશ્ય પુષ્કળ નિર્જરાલાભ થાય.
यशो. - द्रव्यदानं हि आहारादिदानरूपमनैकान्तिकमनात्यन्तिकं च । भावदानं तु तत्प्रतिपक्षमिति न ततो निर्जराप्रच्यवः ।।
चन्द्र. - ननु द्रव्यदानमपि विपुलनिर्जराकारणमिति तदभावे भावदानमात्रात् कथं विपुलनिर्जरालाभः स्यात् इत्यत आह द्रव्यदानं हि अनैकान्तिकम् विपुलनिर्जरात्मकं कार्यं प्रति व्यभिचारि । यश:कीर्तिकामनया भयेन वा क्रियमाणं द्रव्यदानं न विपुलनिर्जरां जनयतीति तत्र द्रव्यदाने सत्त्वेऽपि कार्याभावात् अन्वयव्यभिचारः। तथा द्रव्यदानाभावेऽपि भक्तिभाववतां साधूनां विपुलनिर्जरालाभात् तत्र द्रव्यदानात्मककारणाभावेऽपि विपुलनिर्जरात्मककार्योत्पादात् व्यतिरेकव्यभिचारः । एवञ्च द्रव्यदानं विपुलनिर्जरां प्रति अन्वयव्यतिरेकोभयर व्यभिचारवदस्ति । तथा अनात्यन्तिकं च । यत्र अनाभोगादिभिः कृतेन द्रव्यदानमात्रेण काचिन्निर्जरा भवति ।
साऽपि स्वल्पा, न तु अनुबन्धिनी । ततश्च द्रव्यदानं स्वल्पां अननुबन्धिनी च निर्जरां जनयतीति तत् निर्जरां र प्रति अनात्यन्तिकञ्च । तत्प्रतिपक्षं एकान्तिकं आत्यन्तिकं चेति भावः । ततो भावदानात् निर्जराप्रच्यवः निर्जराऽभावः।
ગોચરી આપવા રૂપ જે દ્રવ્યદાન છે એ “કર્મનિર્જરા રૂપી ફળ આપે જ” એવો એકાંત નથી. અંદર અધ્યવસાય અશુભ હોય તો દ્રવ્યદાન કરવા છતાં કર્મનિર્જરા ન પણ થાય. છે જ્યાં એ દ્રવ્યદાનથી ફળ મળે એ ઉંચી કક્ષાનું = સંપૂર્ણ =અનુબંધવાળું જ મળે એવો પણ નિયમ નથી.
થોડી ઘણી નિર્જરા એ દ્રવ્યદાન દ્વારા મળે પણ એ નિર્જરાની પરંપરા ચાલે જ એવો દ્રવ્યદાનમાં નિયમ નથી. છે જ્યારે ભાવદાન તો અવશ્ય નિર્જરાફળ આપે જ. અને એ પણ અનુબંધવાળું “ઉત્તરોત્તર નિર્જરા વધતી છે 8 જાય” એ રીતનું નિર્જરાફળ આપે. એટલે જ્યાં ભાવદાન હોય ત્યાં નિર્જરાનો લાભ ચૂકી જવાનું ન બને. 8 ___ यशो. - न हि शक्त्यनिगूहनभावयोः फलव्यभिचारित्वमस्ति ।
चन्द्र. - न हि शक्त्यनिगूहनभावयोः इत्यादि । विपुला निर्जरा अत्र फलं । पारलौकिकसुखाद्यर्थं चारित्रं प्रपन्नाः निरतिचारसंयम प्रतिपालयन्तः अभव्यादयः सर्वत्र यथाशक्त्या प्रवर्तन्ते । ततश्च तेषां समीपे। शक्त्यनिगूहनमस्ति । किन्तु शुभो भावः नास्तीति ते विपुलां निर्जरां न प्राप्नुवन्ति । एवञ्च भावविरहितं शक्त्यनिगूहनं फलव्यभिचारि भवति । तथा संविग्नपाक्षिकादयः “निरतिचारं संयमजीवनं परिपालनीयम्', इत्यादिशुभभाववन्तोऽपि तथाविधकर्मवशात् न उचितेषु योगेषु विद्यमानामपि स्वशक्तिं स्फोरयन्ति । एवञ्च। शुभभाववन्तोऽपि ते शक्तिनिगूहनवन्तः न विपुलां निर्जरां प्राप्नोति । ततश्च शक्त्यनिगूहनरहितो भावोऽपि फलव्यभिचारी भवति । तस्मात् शक्त्यनिगूहनभावयोः मीलितयोरेव फलव्यभिचारित्वं नास्तीत्युक्तम्।
वस्तुतस्तु भाव एव विपुलनिर्जराकारणं । शक्त्यनिगहनं तु "विपुलनिर्जराजनके भावे सति भवति" इति। तत् तादृशभावज्ञापकम् । विपुलनिर्जराजनको विशिष्टो भावो यदा न भवति, तदा शक्तिनिगूहनं संभवति । ततश्च । से व्यवहारतः एतदुच्यते यदुत 'तत्र शक्तिनिगूहनमस्तीति हेतोः भावसत्त्वेऽपि विपुला निर्जरा नास्ति" इति ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૦૯