Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 208
________________ GEET atttttttE Ima IIIIIIISORRENTIOm WISIR सामायारी | स्वेच्छया प्रकृतं वैयावृत्यादिकं कुर्याः" इति । यदि चेच्छाकारकरणेऽपि स वैयावृत्यं न कुर्यात्, तदा गुरुणा तस्मै दातव्याऽऽज्ञा, यथा “त्वया प्रकृतं वैयावृत्यादिकं कर्तव्यमेव, नात्र प्रमादः कर्तव्य" इति । यदि चाज्ञामपि स न स्वीकरोति, प्रत्युत कपटं कृत्वा वैयावृत्यादिकार्यं परित्यक्तुमिच्छति, तदा बलात्कारेणापि तस्मै कार्यं । र दातव्यमिति । भवति हि तथाविधविषमपरिणतियुक्ताः केचित्साधवः, ये गुर्वाज्ञामप्यवगणयन्ति ।। ग्लानिशरीरदुर्बलतादिव्याजतश्च गुरुमपि वञ्चयन्ति । किन्तु गीतार्थाचार्यस्तेषां कपटभावं सम्यग्ज्ञात्वा तेषां हितार्थमेव प्रतिपादितक्रमेण वैयावृत्यादिकं कारयति, येन तेषां हितं स्यात् । ____ अत्र शिष्यमनसि शङ्का प्रभवति → गुरुयदि बलाभियोगादिना कार्य कारयेत्, तर्हि किं शिष्यस्य खेदो न भवेत् ? किं स शिष्यः आर्तध्यानादिकं न प्राप्नुयात् ? अथवा वीर्योल्लासं विना वैयावृत्यादिकरणेन तस्य को लाभो भवेत् ? न हि कायिकप्रवृत्तिमात्रेणात्महितं भवति । तस्मान्नेदमाज्ञाबलाभियोगादिकरणं युक्तम् - इति। ____ आचार्यः समादधाति → ये शिष्याः प्रमादिनोऽपि सर्वथाऽयोग्या न भवन्ति, किन्तु गुर्वादिभयवन्तः कुलाद्यभिमानवन्तो वा भवन्ति । ते हि गुरोराज्ञामवश्यं स्वीकुर्वन्ति, यद्यपि तेषां कदाचित्खेदोऽपि भवेत्, तथाप्येकान्तेन ते निर्गुणा न सन्ति । अतो वैयावृत्यादिषु तेषामवश्यं लाभ: स्यात् । कदाचित्तानि शुभकार्याण्येव शिष्याणां मनसि शुभभावान्समुत्पादयेयुः । कदाचित्कार्यकरणानन्तरं परैः क्रियमाणया प्रशंसयापि तेषां वैयावृत्यादिकरणोल्लासो प्रादुर्भवेत् । इत्थञ्च तत्र केनापि प्रकारेण तस्य हितं दृष्ट्वैव तीर्थकरियं मर्यादा प्रतिपादितेति दृष्टव्यम्। ये त्वतीवायोग्या: गुरुं प्रत्यपि द्वेषादिमन्तो निष्ठुरा भवन्ति । गुर्वाज्ञां बलाभियोगञ्चापि निष्फलीकुर्वन्ति । प्रकामं प्रकोपभाजो भवन्ति । तान्प्रति तु गुरुणा न कदाप्याज्ञाबलाभियोगौ कर्तव्यौ । केवलं तत्रोपेक्षैव करणीया। अत एवोक्तं → मा मा जंपह बहुयं जे बद्धा चिक्कणेहिं कम्मेहिं, सव्वेसि तेसिं जायइ हिओवएसो महादोसो + इति । तथा “उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् - इति। ननु तथाप्येतैः सर्वथाऽविनीतैस्सह आज्ञाबलाभियोगाभ्यां कार्यं कुर्वद्भिस्सह च संवासकरणेऽनवरतं गुरोः । चित्तसंक्लेशो भवेदेव । अविनीतामुद्धतानां विचित्रवर्तनमविनयमौद्धत्यञ्च दृष्ट्वा किं गीतार्थगुरुणां खेदो न भवेत् ? किं वाऽर्धयोग्यानामप्याज्ञाबलाभियोगादिकरणे गीतार्थगुरुर्न संक्लिश्नाति ? तत्किमेतैः सर्वथाऽयोग्यैरर्धयोग्यैश्च सह संवासेन ? को नाम गीतार्थगुरुर्दशदृष्टान्तदुर्लभं मनुष्यजन्म जिनधर्मश्रवणं चारित्रधर्मं तत्र वीर्योल्लासं च लब्ध्वाऽपि क्षणमपि निरर्थकमेव गमयेत् ? एतैस्सह संवासे तु न केवलं क्षणमपि तु कदाचिद् प्रहरदिनादिकालोऽपि निरर्थक एव गच्छेत् इति चेत् _ शिष्य ! भवदुक्तं सर्वं सत्यम् । प्रथमं तावदहमुत्तराध्ययनस्य सप्तविंशतितमाध्ययने प्रतिपादित प्रकृतपदार्थसाधकं दृष्टान्तं कथयामि । एको गर्गनामा गणधार्यासीत्, सं च गीतार्थः स्थविरो विशारदश्चासीत् ।। किन्तु तच्छिष्या अविनीता अभवन् । एकदा स विचारयति → नैते शिष्या विनयादिकं कुर्वन्ति, मत्कार्याण्यपि यथा तथैव कुर्वन्ति, कदाचित्कपटेन नैव कुर्वन्ति । मदुपदेशमवगणयन्ति, प्रत्युत कुतर्कान्कृत्वा मामपि मूकं कुर्वन्ति । केचित्साधवः ऋद्धिगारवयुक्ताः केचिद्रसगारवमग्नाः, केचित्शातागारवमग्नाः, केचिद्महाक्रोधिनः, attract SSSSSSSSS EEEEEEEEEEEEEEEEEET EEEEEEEEEEEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८६ RESSETTRIOTEESORRESSIRRORasamassammessansarmassassassansamacartB

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286