Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 210
________________ AIMERIERREE WISIR सामायारी स्खलनामतिचारादिरूपां कुर्यात् यथा गुरुणा किञ्चिल्लेखनादिकार्यं झटित्येव करणाय शिष्याय दत्तं । स तु कार्य गृहीत्वा कियत्कालं यावत्सुप्तः । गुरुणा तु तदा तत्कार्यं याचितं । शिष्यस्तु वक्ति → अहं सुप्तोऽभवम्, अधुनैव जागरामि + इति । तदा गुरुणा किं कर्तव्यम् ? एवं गुरुणा योग्यशिष्येभ्य अमुकाऽमुका सामाचारी ज्ञापिता, कथितञ्च, यथा "एता अवश्यं पालनीयाः" । शिष्यास्तु प्रमादादिना तत्र स्खलनां कृतवन्तः, से विस्मरणमेव वा प्राप्ताः, तदा किं कर्तव्यमित्याशङ्कां गाथोत्तरार्धेण परिहरति । 1 यदा योग्यशिष्यः संयमयोगादिषु गुरुदत्तकार्यादिषु वा प्रमादादितोऽपि स्खलनां कुर्यात् तदा गुरुणा तस्य दुर्वाक्यैर्भर्त्सना कार्या । यथा “न योग्यमेतद् भवादृशां, किं न स्मरसि संयमपालनप्रतिज्ञां? किं प्रमादाय दीक्षा 1 गृहीता? निष्ठुरोऽसि त्वं जिनाज्ञापालने, न वर्तते भवन्मनसि गुरुबहुमानं, गर्दभसदृशस्वभावोऽसि त्वं" इत्यादि। ननु नेदं निष्ठुरवचनोच्चारणं युक्तं, गुरोः शिष्यस्य च द्वेषादिसंभवात् । तस्माद्गुरुणा पुनरपीच्छाकारप्रयोग एव कार्यः यथा “शिष्य ! त्वया प्रमादेन यद्यपि विस्मृतं मत्कार्यं, तत्किमधुना स्वेच्छया करोषि" इत्यादि । येन न शिष्यस्य न वा गुरोः कश्चिद् दोषः स्यादिति चेत् न, 2 इच्छाकारप्रयोगो हि शिष्यादीन्सामाचार्यादिषु प्रवर्तनाय क्रियते । यदा तु शिष्या असमाचारीषु प्रवृत्ता। भवन्ति, तदाऽसामाचारीनिषेधार्थं नेच्छाकारप्रयोगो युक्तोऽपि तु कठोरवचनोच्चारणरूपा निर्भर्त्सनैव युक्ता। यथा हि प्रशंसावचनं परान् शुभप्रवृत्तिषु प्रवर्तयति, परेषु शुभप्रवृत्तिकरणायात्यन्तिकोत्साहं जनयति । तथैव निन्दावचनं शिष्यादिन् सामाचारीविरुद्धप्रवृत्तान् असदाचारात् निवर्तयति, शिष्यादिष्वशुभप्रवृत्तेः * सकाशान्निवर्तनार्थमात्यन्तिकोत्साहं जनयति । अत एवोक्तं → गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वं, अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो विशन्ति - इति । तथा → धन्यस्योपरि निपतत्यहितसमाचरणघर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्शः इति । कारिकाद्वयस्य संक्षेपार्थस्तु → गुरूणां परुषाक्षरैर्वचनैस्तिरस्कृता नरा महानतां प्राप्नोति, न हि शाणेऽधृष्टा मणयो चक्रवर्तिनां से मुकृटे शोभास्पदं प्राप्नुवन्ति । तथा यः शिष्यो धन्यो भवति, तस्यैवोपरि सामाचारीविरुद्धाचरणरूपस्य N दाहस्योपशमनसमर्थो गुरुवदनरूपाद् मलयाचलपर्वतान्निर्गतो निष्ठुरवचनात्मकश्चन्दनरसो निपतति - इति । यच्च भवता कथितं यदुत "गुरुणां कठोरवचनैः शिष्यमनसि खेदो भवेत्" तदपि न युक्तम् । यतो योग्यस्यैव शिष्यस्य सामाचारीपालने स्खलनां दृष्ट्वा निष्ठुरवचनानि ब्रूते गुरुः । यस्तु शिष्यो गुरूणां १ कठोरवचनानि श्रुत्वा मनसि खेदं प्राप्नोति, स तु योग्य एव न गण्यते । अतो न गीतार्थो गुरुस्तथाविधं शिष्यं । १ कठोरवचनैस्तिरस्करोति । किन्तु गुरूणां कठोरवचनानि श्रुत्वापि यस्य मनसि लेशतोऽपि खेदो न प्रादुर्भवति, प्रत्युत य: महानिधिप्राप्तिकल्पानि मन्यते कठोरवचनानि, स एव योग्यः शिष्यः । तमेव गीतार्थो गुरुः निष्ठुर । वचनैस्तिरस्करोतीति को दोषोऽत्र ? प्रत्युत योग्योऽपि शिष्यो यदा स्खलनां करोति, तदा यदि पुनरिच्छाकारप्रयोगमेव गुरुः कुर्यात्, तदा तु शिष्यस्य प्रमादो भृशं वर्धेत । आक्रोशपरिषहसहनावसरश्च शिष्यस्य 1 न भवेत् । कठोरवचनोच्चारणे तु झटिति प्रमादत्याग आक्रोशपरिषहसहनजन्या च महती निर्जरा स्यादिति HEHEEEEEEEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०१ Westaura ntsEEartesunanesarearancescarcassecsESEREEEEEEEEEEEES

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286