________________
AIMERIERREE
WISIR सामायारी स्खलनामतिचारादिरूपां कुर्यात् यथा गुरुणा किञ्चिल्लेखनादिकार्यं झटित्येव करणाय शिष्याय दत्तं । स तु कार्य गृहीत्वा कियत्कालं यावत्सुप्तः । गुरुणा तु तदा तत्कार्यं याचितं । शिष्यस्तु वक्ति → अहं सुप्तोऽभवम्, अधुनैव जागरामि + इति । तदा गुरुणा किं कर्तव्यम् ? एवं गुरुणा योग्यशिष्येभ्य अमुकाऽमुका सामाचारी ज्ञापिता, कथितञ्च, यथा "एता अवश्यं पालनीयाः" । शिष्यास्तु प्रमादादिना तत्र स्खलनां कृतवन्तः, से विस्मरणमेव वा प्राप्ताः, तदा किं कर्तव्यमित्याशङ्कां गाथोत्तरार्धेण परिहरति । 1 यदा योग्यशिष्यः संयमयोगादिषु गुरुदत्तकार्यादिषु वा प्रमादादितोऽपि स्खलनां कुर्यात् तदा गुरुणा तस्य
दुर्वाक्यैर्भर्त्सना कार्या । यथा “न योग्यमेतद् भवादृशां, किं न स्मरसि संयमपालनप्रतिज्ञां? किं प्रमादाय दीक्षा 1 गृहीता? निष्ठुरोऽसि त्वं जिनाज्ञापालने, न वर्तते भवन्मनसि गुरुबहुमानं, गर्दभसदृशस्वभावोऽसि त्वं" इत्यादि।
ननु नेदं निष्ठुरवचनोच्चारणं युक्तं, गुरोः शिष्यस्य च द्वेषादिसंभवात् । तस्माद्गुरुणा पुनरपीच्छाकारप्रयोग एव कार्यः यथा “शिष्य ! त्वया प्रमादेन यद्यपि विस्मृतं मत्कार्यं, तत्किमधुना स्वेच्छया करोषि" इत्यादि । येन
न शिष्यस्य न वा गुरोः कश्चिद् दोषः स्यादिति चेत् न, 2 इच्छाकारप्रयोगो हि शिष्यादीन्सामाचार्यादिषु प्रवर्तनाय क्रियते । यदा तु शिष्या असमाचारीषु प्रवृत्ता। भवन्ति, तदाऽसामाचारीनिषेधार्थं नेच्छाकारप्रयोगो युक्तोऽपि तु कठोरवचनोच्चारणरूपा निर्भर्त्सनैव युक्ता।
यथा हि प्रशंसावचनं परान् शुभप्रवृत्तिषु प्रवर्तयति, परेषु शुभप्रवृत्तिकरणायात्यन्तिकोत्साहं जनयति । तथैव निन्दावचनं शिष्यादिन् सामाचारीविरुद्धप्रवृत्तान् असदाचारात् निवर्तयति, शिष्यादिष्वशुभप्रवृत्तेः * सकाशान्निवर्तनार्थमात्यन्तिकोत्साहं जनयति । अत एवोक्तं → गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा
महत्त्वं, अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो विशन्ति - इति । तथा → धन्यस्योपरि निपतत्यहितसमाचरणघर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्शः इति । कारिकाद्वयस्य
संक्षेपार्थस्तु → गुरूणां परुषाक्षरैर्वचनैस्तिरस्कृता नरा महानतां प्राप्नोति, न हि शाणेऽधृष्टा मणयो चक्रवर्तिनां से मुकृटे शोभास्पदं प्राप्नुवन्ति । तथा यः शिष्यो धन्यो भवति, तस्यैवोपरि सामाचारीविरुद्धाचरणरूपस्य N दाहस्योपशमनसमर्थो गुरुवदनरूपाद् मलयाचलपर्वतान्निर्गतो निष्ठुरवचनात्मकश्चन्दनरसो निपतति - इति ।
यच्च भवता कथितं यदुत "गुरुणां कठोरवचनैः शिष्यमनसि खेदो भवेत्" तदपि न युक्तम् । यतो योग्यस्यैव शिष्यस्य सामाचारीपालने स्खलनां दृष्ट्वा निष्ठुरवचनानि ब्रूते गुरुः । यस्तु शिष्यो गुरूणां १ कठोरवचनानि श्रुत्वा मनसि खेदं प्राप्नोति, स तु योग्य एव न गण्यते । अतो न गीतार्थो गुरुस्तथाविधं शिष्यं । १ कठोरवचनैस्तिरस्करोति । किन्तु गुरूणां कठोरवचनानि श्रुत्वापि यस्य मनसि लेशतोऽपि खेदो न प्रादुर्भवति, प्रत्युत य: महानिधिप्राप्तिकल्पानि मन्यते कठोरवचनानि, स एव योग्यः शिष्यः । तमेव गीतार्थो गुरुः निष्ठुर । वचनैस्तिरस्करोतीति को दोषोऽत्र ? प्रत्युत योग्योऽपि शिष्यो यदा स्खलनां करोति, तदा यदि
पुनरिच्छाकारप्रयोगमेव गुरुः कुर्यात्, तदा तु शिष्यस्य प्रमादो भृशं वर्धेत । आक्रोशपरिषहसहनावसरश्च शिष्यस्य 1 न भवेत् । कठोरवचनोच्चारणे तु झटिति प्रमादत्याग आक्रोशपरिषहसहनजन्या च महती निर्जरा स्यादिति
HEHEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०१ Westaura ntsEEartesunanesarearancescarcassecsESEREEEEEEEEEEEES