________________
ઈચ્છાકાર સામાચારી
महान्लाभः ॥९॥
ननु यद्यपि " योग्यशिष्यस्य मनसि गुरुणां कठोरवचनानि श्रुत्वाऽपि लेशतोऽपि खेदो न भवत्यपि तु हर्ष एव प्रादुर्भवति" इति सत्यम्, तथा च तदा शिष्यस्य लाभ एव भवेत् । किन्तु कठोरवचनानि ब्रुवतो गुरोस्तु तदाऽवश्यंभाविक्रोधकषायेन संयमहानिरेव स्यात् । न हि निष्ठुरवचनानि सर्वथा क्रोधं विना वक्तुं शक्यानि । यदि लेशतोऽपि क्रोधकषायं विना कठोरवचनानि वक्तुं पार्यन्ते, तदा तु विगतकषायास्तीर्थकरा अपि स्वशिष्यान्क्रोधकषायं विना कठोरवचनैस्तर्जयेयुः । किन्तु ते तु सर्वान् शिष्यान्गणधरेभ्यः समर्पयन्तीति ज्ञायते यत् कठोरवचनोच्चारणेऽवश्यं लेशतोऽपि क्रोधकषायो भवत्येव । तत्कि स्वसंयमजीवनमालिन्यकारिणा शिष्योपर्युपकारविधायिना क्रोधकषायेन प्रयोजनं ? न हि गुरोरात्मानं भवोदधौ निमज्जयित्वा शिष्योपरि उपकारकरणं कथमपि युक्तम् । अन्यथा पञ्चशतशिष्योपर्युपकारकर्तुः स्कन्धकायार्चस्य शास्त्रे प्रशंसा कृता स्यात्, न च कृता । तस्माद्योग्यस्यापि शिष्यस्य स्खलनायां गुरुणा मधुरवचनैरैव पुनः कार्यं समर्पयितुं युक्तम् इति स्थितम् इति चेत् ? न ।
तीसे ण दोसलेसोवि नूणं दोसावहो पसत्थोत्ति । परिकम्पिओ ण जीवियघायकरो वच्छणागो वि ॥१०॥
यथा हि विषं स्वरूपतो जीवितनाशकरं । किन्त्वौषधादिप्रयोगैरौषधीकृतं तदेव विषं न जीवितनाशकरं, किन्तु रोगनाशद्वारा शरीरपुष्टिद्वाराऽऽरोग्यादिदायकं भवति । तथैव योग्यशिष्यस्खलनाकाले गुरुणा यत्कठोरवचनोच्चारणं क्रियते, तत्र समुत्पद्यमानः क्रोधकषायो " मम निष्ठुरवचनैः शिष्याः प्रमादं त्यक्त्वा मोक्षमार्गाराधका भवन्तु" इति निर्मलतमपरिणामसमन्वितो न गुरोर्दोषावहो भवति । प्रत्युत प्रमादनाशपरोपकारशुभभाववृद्ध्यादिना महानिर्जराकारी भवति । एवञ्च क्रोधकषायः स्वरूपतोऽनर्थकार्यपि जिनाज्ञाबहुमानपरोपकारादिभावनागर्भितः स एव क्रोधकषायः प्रशस्तो भूत्वा सुदीर्घकालभाविनमपि गुरोर्मोक्षमासन्नीकरोति ।
इदञ्चोपलक्षणम् । ये पदार्थाः संसारवर्धकाः, ते एव प्रशस्त भावसंयुक्ताः सन्तः संसारनाशका भवन्ति । यथा लोभकषायोऽनन्तसंसारकारणं, किन्तु संयमपालनस्वाध्यायवैयावृत्यतपोऽनुष्ठानादिषु क्रियमाणः स एव लोभकषायः परमपदकारणम् । अब्रह्मसेवनं हि हिंसाजननादिद्वारा दुर्गतिकारणं भवति, किन्तु षष्ट्यां कान्तादृष्ट्यां स्थितानां तीर्थकरादीनां तदेवाब्रह्मसेवनं भोगावलिकर्मक्षयद्वारा परमपदप्रयोजकं भवति । जातिरूपश्रुतादीनां मानकषायो नीचैर्गोत्रादिकर्मबन्धजननद्वारा दुर्गतिकारणम् । किन्तु सद्गुरुसद्धर्मसुदेवादिप्राप्तिजन्यो मानकषायः प्रशस्तो भूत्वा पुण्यानुबन्धिपुण्योत्पादनद्वारा मोक्षकारणमिति न कुत्राप्येकान्तवादिना भवितव्यम् । किन्तु यथायोगमुत्सर्गापवादौ क्रियाज्ञाने व्यवहारनिश्चये संवराश्रवौ सम्यक्चिन्तनीयौ । अत एवोक्तं " जावइया उस्सग्गा तावइया चेवाववाया । जावइया अववाया तावइया चेव उस्सग्गा" इति ॥ १० ॥
यस्तु गुरुः " शिष्योपरि क्रोधादिकरणे ममाहितं भविष्यति, तस्मादलमेभिः, अहमेव वस्त्रप्रतिलेखनादीनि सर्वकार्याणि स्वयमेव करोमि, येन मम कषायादिकरणस्यावसर एव न भवेद्" इत्यादि शास्त्रनिषिद्धैः कुविकल्पैरात्मानं भावयित्वा स्वयमेव सर्वाणि कार्याणि करोति, स तु महानर्थकारी भवतीत्याह ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०२