________________
ARREAR
R IENDRAMINETITIRE JEWISIR सामाचारी , केचिद् भिक्षाचर्यादियोगेषु प्रमादिनः, केचिदभिमानिनः च सन्ति । किं करोमि ? मयैते प्रयत्नतः पाठिताः, न र भक्तपानादिना संतोषिताः, सांसारिकदुःखादिभ्यो रक्षिताः, किन्त्वधुनैते जातपक्षाः हंसा इव मां त्यक्त्वैव सर्वत्र गन्तुकामाः, अहो ! एते मम शिष्या गलिबलीवर्दसदृशाः, गर्दभतुल्यस्वभावाः । मम त्वेतान्स्वयं त्यक्त्वाऽऽत्महितकरणमेव श्रेय - इति । इत्थञ्च तेन गर्गाचार्येणायोग्यानां त्यागं कृत्वात्महितं साधितम् । र अनेन दृष्टान्तेनैतद् दृढीभवति यदुतायोग्येन सह संवास एव न कर्तव्यः । तत्र संक्लेशादिनाऽऽत्महिताऽसंभवात् ।
किन्त्वेष उत्सर्गमार्गः । पर यदि हि कथमपि तेऽयोग्या अर्धयोग्यास्त्यक्तुं न शक्यन्ते । यथा कदाचित्तेषां त्यागे क्रियमाणे
सर्वथैवोच्छङ्खलीभूतास्ते जिनशासनापभ्राजनानिमित्तं भवेयुः । कदाचित्ते तस्यैव गुरोस्स्वजनादिरूपा भवेयुः ।। तेषां त्यागे च सांसारिकसंबंधिन एतं गुरुं निन्देयुः । कदाचिदतीवग्लानीभूतो गुरुस्तान्त्यक्त्वा स्वनिर्वाहमेव 1 कर्तुमसमर्थो भवेत् । इत्थञ्च प्रतिपादितावस्थास्वपि यदि स गुरुस्तान्त्यजेत्, तदा तु तस्याराधना तु दूरे, प्रत्युत जिनशासनापभ्राजनानिमित्तत्वासमाधिमरणादयो बहवो दोषाः संभवेयुः । तस्मात्तथाविधकारणेषु तथाविधायोग्यादिभि:सहापि संवासः करणीयः । तत्र च संवसता गुरुणाऽर्धयोग्यान्प्रतीच्छाकारप्रयोगाज्ञाबलाभियोगाः क्रमश: करणीयाः । सर्वथाऽयोग्यान्प्रति तूपेक्षैव धर्तव्येति भवेदेवंरीत्यापि तस्य गुरोहितम् ।
शिष्यः प्रश्नयति → "गुरुणाऽपि शिष्यायापि प्रथममिच्छाकारकरणद्वारैव स्वकार्यं समर्पणीयम्" इति। र यदुक्तं, तत्र मन्मनसि भवतीयमाशङ्का यदुत "सर्वं स्वकार्यं साधुना उत्सर्गतः स्वयमेव कर्तव्यमपवादतो त्रिषु स्थानेष्विच्छाकार-पूर्वकमन्यस्मै समर्पणीयम्" इति प्राग्विस्तरतः प्रतिपादितम् । तत्किमयमुत्सर्गापवादनियमो गुरुणाऽपि पालनीयः? यद्वा गुरुं विनाऽन्यसाधुभिस्स पालनीयः । गुरुणापि सर्वाणि स्वकार्याण्युत्सर्गतः स्वयमेव कर्तव्यानि ? अपवादतस्तु त्रिषु स्थानेष्वेव शिष्यादिभ्यो समर्पणीयानि ? - इति ।
अत्रोत्तरं → गुरुस्तावत्स्वकार्याणि न स्वयं करोति, किन्तु शिष्याणां हिताय शिष्येभ्यो ददाति । यदि हि गुरुः स्वयमेव स्वकार्याणि कुर्यात्, तदा शिष्या गुरुविनयवैयावृत्यादिकार्याणि कथं शिक्षेयुः । तदभावे च। व तेषामात्महितं कथं स्यात् ? न हि विनयवैयावृत्यादिकं विना परमपदप्राप्तिः, विनयस्य जिनशासनमूलत्वात्
वैयावृत्यस्य चाप्रतिपातिगुणत्वात् । तस्माद् यो गुरुर्भवति, तेन सर्वाणि स्वकार्याणि शिष्येभ्य एवेच्छाकारादिपूर्वकं दातव्यानि, न तु शक्तौ सत्यामपि स्वयं कर्तव्यानि । 1 वर्तमानकाले तु यदा साधुसमुदाये यो रत्नाधिको भवेत्, स गुरुवत्स्वकार्याणि साधूभ्यो दद्यात्, किन्तु स। के रत्नाधिको निःस्पृहः, स्ववैयावृत्यलालसाविरहितः “साधूनां हितं भवतु" इत्येतावन्मात्रशुद्धपरिणामांश्च ग्राह्यः ।। न तु तथाविधगुणविकासशून्यः । किं बहुना ? सर्वत्र सर्वदा गीतार्थमापृच्छ्यैव सर्वं कर्तव्यम् । विचित्राः हि द्रव्यक्षेत्रकालभावपरिणामाः, येषु कदाचिदकर्तव्यमपि कर्तव्यं स्यात् । कदाचित्तु कर्तव्यमप्यकर्तव्यं स्यात् ।।
अथ ये योग्याः शिष्याः, तेऽपि कदाचित्प्रमादानाभोगादिदोषवशात् गुरुदत्तकार्येषु सामाचार्यादिषु वा
EEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २०० ResearSREEEEEEEEEEEEEEEEEEEEEEEETTER18888888888888885600000000000000000RRECallB