________________
GEET atttttttE
Ima IIIIIIISORRENTIOm WISIR सामायारी | स्वेच्छया प्रकृतं वैयावृत्यादिकं कुर्याः" इति । यदि चेच्छाकारकरणेऽपि स वैयावृत्यं न कुर्यात्, तदा गुरुणा तस्मै दातव्याऽऽज्ञा, यथा “त्वया प्रकृतं वैयावृत्यादिकं कर्तव्यमेव, नात्र प्रमादः कर्तव्य" इति । यदि चाज्ञामपि स न स्वीकरोति, प्रत्युत कपटं कृत्वा वैयावृत्यादिकार्यं परित्यक्तुमिच्छति, तदा बलात्कारेणापि तस्मै कार्यं । र दातव्यमिति । भवति हि तथाविधविषमपरिणतियुक्ताः केचित्साधवः, ये गुर्वाज्ञामप्यवगणयन्ति ।। ग्लानिशरीरदुर्बलतादिव्याजतश्च गुरुमपि वञ्चयन्ति । किन्तु गीतार्थाचार्यस्तेषां कपटभावं सम्यग्ज्ञात्वा तेषां हितार्थमेव प्रतिपादितक्रमेण वैयावृत्यादिकं कारयति, येन तेषां हितं स्यात् । ____ अत्र शिष्यमनसि शङ्का प्रभवति → गुरुयदि बलाभियोगादिना कार्य कारयेत्, तर्हि किं शिष्यस्य खेदो न भवेत् ? किं स शिष्यः आर्तध्यानादिकं न प्राप्नुयात् ? अथवा वीर्योल्लासं विना वैयावृत्यादिकरणेन तस्य को लाभो भवेत् ? न हि कायिकप्रवृत्तिमात्रेणात्महितं भवति । तस्मान्नेदमाज्ञाबलाभियोगादिकरणं युक्तम् - इति। ____ आचार्यः समादधाति → ये शिष्याः प्रमादिनोऽपि सर्वथाऽयोग्या न भवन्ति, किन्तु गुर्वादिभयवन्तः कुलाद्यभिमानवन्तो वा भवन्ति । ते हि गुरोराज्ञामवश्यं स्वीकुर्वन्ति, यद्यपि तेषां कदाचित्खेदोऽपि भवेत्, तथाप्येकान्तेन ते निर्गुणा न सन्ति । अतो वैयावृत्यादिषु तेषामवश्यं लाभ: स्यात् । कदाचित्तानि शुभकार्याण्येव शिष्याणां मनसि शुभभावान्समुत्पादयेयुः । कदाचित्कार्यकरणानन्तरं परैः क्रियमाणया प्रशंसयापि तेषां वैयावृत्यादिकरणोल्लासो प्रादुर्भवेत् । इत्थञ्च तत्र केनापि प्रकारेण तस्य हितं दृष्ट्वैव तीर्थकरियं मर्यादा प्रतिपादितेति दृष्टव्यम्।
ये त्वतीवायोग्या: गुरुं प्रत्यपि द्वेषादिमन्तो निष्ठुरा भवन्ति । गुर्वाज्ञां बलाभियोगञ्चापि निष्फलीकुर्वन्ति । प्रकामं प्रकोपभाजो भवन्ति । तान्प्रति तु गुरुणा न कदाप्याज्ञाबलाभियोगौ कर्तव्यौ । केवलं तत्रोपेक्षैव करणीया। अत एवोक्तं → मा मा जंपह बहुयं जे बद्धा चिक्कणेहिं कम्मेहिं, सव्वेसि तेसिं जायइ हिओवएसो महादोसो + इति । तथा “उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् - इति।
ननु तथाप्येतैः सर्वथाऽविनीतैस्सह आज्ञाबलाभियोगाभ्यां कार्यं कुर्वद्भिस्सह च संवासकरणेऽनवरतं गुरोः । चित्तसंक्लेशो भवेदेव । अविनीतामुद्धतानां विचित्रवर्तनमविनयमौद्धत्यञ्च दृष्ट्वा किं गीतार्थगुरुणां खेदो न भवेत् ? किं वाऽर्धयोग्यानामप्याज्ञाबलाभियोगादिकरणे गीतार्थगुरुर्न संक्लिश्नाति ? तत्किमेतैः सर्वथाऽयोग्यैरर्धयोग्यैश्च सह संवासेन ? को नाम गीतार्थगुरुर्दशदृष्टान्तदुर्लभं मनुष्यजन्म जिनधर्मश्रवणं चारित्रधर्मं तत्र वीर्योल्लासं च लब्ध्वाऽपि क्षणमपि निरर्थकमेव गमयेत् ? एतैस्सह संवासे तु न केवलं क्षणमपि तु कदाचिद् प्रहरदिनादिकालोऽपि निरर्थक एव गच्छेत् इति चेत् _ शिष्य ! भवदुक्तं सर्वं सत्यम् । प्रथमं तावदहमुत्तराध्ययनस्य सप्तविंशतितमाध्ययने प्रतिपादित प्रकृतपदार्थसाधकं दृष्टान्तं कथयामि । एको गर्गनामा गणधार्यासीत्, सं च गीतार्थः स्थविरो विशारदश्चासीत् ।। किन्तु तच्छिष्या अविनीता अभवन् । एकदा स विचारयति → नैते शिष्या विनयादिकं कुर्वन्ति, मत्कार्याण्यपि यथा तथैव कुर्वन्ति, कदाचित्कपटेन नैव कुर्वन्ति । मदुपदेशमवगणयन्ति, प्रत्युत कुतर्कान्कृत्वा मामपि मूकं कुर्वन्ति । केचित्साधवः ऋद्धिगारवयुक्ताः केचिद्रसगारवमग्नाः, केचित्शातागारवमग्नाः, केचिद्महाक्रोधिनः,
attract
SSSSSSSSS
EEEEEEEEEEEEEEEEEET
EEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८६ RESSETTRIOTEESORRESSIRRORasamassammessansarmassassassansamacartB