________________
WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEE
ARRIERRENTERTAINMENTERNED WISIR सामाचारी
मुक्त्वाऽन्यान्साधून्समाश्रित्येति शिष्यजिज्ञासायां गुरुः प्राह । न केवलमन्येषां साधूनां, किन्तु गुरोरपि शिष्याय का स्वकार्यदानमिच्छाकारप्रयोगं विना न कल्पत इति सिद्धान्तः ॥७॥
ननु रत्नाधिकास्तावत्स्वकार्यदानेऽवश्यमिच्छाकारप्रयोगं कुर्वन्तु, गुरुस्तु शिष्यस्य महोपकारी । शिष्येन तु है गुरूणां सर्वाणि कार्याणि कर्तव्यान्येव । एवञ्च गुरुः स्वकार्यदाने शिष्यं प्रतीच्छाकारप्रयोगं यदि न करोतु, तदा को दोषः ? इति शिष्यस्य मनसि वर्तमानं संदेहं संप्रेक्ष्याचार्यः प्रत्युत्तरयति । आणाबलाभिओगो सव्वत्थ ण कप्पइति उस्सग्गो । अववायओ अईसिं कप्पइ सो आसणाएणं ॥८॥
"शिष्य ! भवता ममेदं वस्त्रप्रतिलेखनादिकमवश्यं कार्यमेव" इति याऽऽज्ञा, तामपालयन्तं शिष्यं प्रति च यः बलाभियोगः बलात्कारेण स्वकार्यसमर्पणं, एतौ द्वावपि शिष्यं प्रत्यपि गुरुणां न कल्पते । यत आज्ञाबलाभियोगौ सर्वत्र न कल्पत इत्युत्सर्गमार्गो जिनैः प्रतिपादितः ।
न हि गुरुणा वस्त्रप्रतिलेखनजलानयनगोचर्यानयनादिस्वकार्यार्थं शिष्याय दीक्षा दातुमुचिता । किन्तु "स शिष्यः प्रव्रज्यां गृहीत्वा मोक्षमार्गमाराध्य झटिति परमपदं प्राप्नोतु" इत्येतावन्मात्राभिप्रायेण गुरुणा शिष्याय दीक्षा दातव्या । इत्थञ्च यदि दीक्षादानानन्तरं "अहमस्य महोपकारी" इत्यभिमानेन गुरुः स्वकार्याणि शिष्यायाज्ञाबलाभियोगाभ्यां दद्यात्, तदा कदाचिच्छद्मस्थः शिष्यः गुरुं प्रत्यप्यसद्भाववान्स्यात्, गुरुद्रोहमपि च कुर्यात्।। "अयं तु मम गुरु: मां कर्मकरमिव मन्यते, संसारे श्रेष्ठिनोऽपि स्वसेवकेभ्य ईदृशेन प्रकारेण न स्वकार्याणि प्रयच्छन्ति, किन्तु मृदुभाषया । अयं तु मम गुरुरनवरतं मह्यं सर्वाणि कार्याणि ददाति, मिथ्यैव मयाऽयं गुरुपदे 8 से स्थापित" इत्यादि कुविकल्पमपि कुर्यात् । एवञ्च तस्य महान्कर्मबन्धः स्यात् । तन्निमित्तञ्च स गुरुरिति गुरोरपि महादोषः स्यात् । किञ्चैवं शिष्यायाज्ञाबलाभियोगाभ्यां स्वकार्यदाने गुरोजिनाज्ञाभङ्गपरपीडापरिहारपरिणामाभाववीर्याचारापालनादयोऽन्येऽपि दोषाः संभवन्ति । तस्मात् गुरुणाऽपि शिष्यायापीच्छाकारप्रयोगपूर्वकमेव स्वकार्याणि दातव्यानीत्युत्सर्गः ।
अपवादमार्गस्त्वयम् - यदि स शिष्यः स्वयं वैयावृत्यादिकं न कुरुते, तदा तं प्रति आज्ञाबलाभियोगौ जिनैरनुज्ञातौ । अत्राश्वद्वयस्य दृष्टान्तः, तत्र यो जात्यश्वो नृपेच्छानुसारेण सर्वं कुरुते, तं प्रति नृपःतुष्टः सन् न कामपि शिक्षां कुरुते । किन्तु तस्मै शोभनाहारादिकं दापयति । एवमेव यः शिष्यः स्वयमेव गुर्विच्छानुसारेण प्रवर्तते, तं प्रति गुरुर्न कदाप्याज्ञाबलाभियोगौ प्रवर्तयति । किन्तु यथा दुष्टोऽश्वो नृपेच्छानुसारेण न वर्तते, तमश्वं क्रुद्धो नृप आहारनिरोधादिना दण्डयति । तथैव गुर्विच्छानुसारेणाप्रवर्तमानं शिष्यं प्रति गुरुराज्ञाबलाभियोगौ कर्तुं 8 योग्यो भवति । तावप्याज्ञाबलाभियोगौ न भृशं कर्तव्यौ, तथा सति शिष्यस्य कदाचित्प्रद्वेषो भवेत् । किन्तु मनागेव कर्तव्यौ ॥८॥ ___ ननु “य: शिष्योऽविनीतः वैयावृत्यादिकरणे च प्रमादी, तं प्रति किं प्रथमत एवाज्ञाबलाभियोगौ कर्तव्यौ? उत तत्रापि प्रथममिच्छाकारप्रयोगः कर्तव्यः" इति शिष्यशङ्कां दूरीकर्तुमाहाचार्यः ।। पढमं इच्छाकारो तत्तो आणा तओ अ अभिओगो।जोग्गे वि अणुवओगा खरण्टणा होइ खलियम्मि ॥१॥
यः शिष्यो वैयावृत्यादिकरणे प्रमादी भवति, तं प्रत्यपि प्रथममिच्छाकार एव गुरुणा कर्तव्यः, यथा “त्वं,
RESSSSSSSSSSSS
FEEEEE
SUBSCLOSURESS
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १६८ IECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
P