SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ a mma ATREAR 2018IR सामाधारी | तथा "मदुपधिप्रतिलेखनं मया स्वयमेव कर्तव्यम् । यद्यन्यः करोति, तदा मया द्वितीयदिने उपवास कर्तव्य" इति केनचित्साधुनाऽभिग्रहो गृहीतोऽस्ति । अन्यस्तु साधुस्तमभिग्रहमजानन्तमपृष्ट्वैव। तदुपधिप्रतिलेखनं करोति, तदा तस्याभिग्रहस्य भङ्गो भवेत् । द्वितीयदिने च तेनोपवासः कर्तव्यः स्यादिति तस्य। संक्लेशोऽपि भवेत् । एवमन्यानपि दोषान्संभाव्य परस्यानुज्ञामिच्छाकारेण गृहीत्वैव तस्य कार्यं करणीयं, नान्यथा । ___ तथा परस्य वस्त्रप्रतिलेखन-वस्त्रप्रक्षालन-वस्त्रसीवनादीनि कार्याणि भक्तिभावेन कर्तुमिच्छताऽपि प्रथम 1 गुरोरनुज्ञा ग्रहीतव्या । यतः कदाचित्तत्कार्यकरणेऽन्ये दोषा संभवेयुः, गीतार्थगुरुस्तु तान्दोषान्जानाति, ततश्च यदि। 1 गुरुरनुज्ञां न दद्यात् तदा न परकार्यं करणीयम्, यद्यनुज्ञां दद्यात्तदा तु करणीयम् । किं बहुना "श्वासोच्छ्वासादिकं प्रतिक्षणसंभवि प्रतिक्षणं गुरुं प्रष्टुमशक्यं कार्यं मुक्त्वा स्थण्डिलगमनादि सर्वमपि कार्यं गुरुमापृच्छ्यैव कर्तव्यम्" इति जिनशासनरहस्यम् । 2 तथैकः साधुर्वस्त्रप्रक्षालनकाले श्रान्तः सन् शेषकार्यसमाप्त्यर्थं द्वितीयं साधु प्रतीच्छाकारप्रयोगं करोति ।। दूरस्थस्तृतीयः साधुस्तत्सर्वं पश्यति । तस्य च वैयावृत्यकरणभावो जातः, स च तत्र गत्वा प्रथमं साधुं कथयेत्। यदुत "यदि भवाननुज्ञां ददाति, तदाहमिच्छया भवत्कार्यं करोमि" इति । व अत्र च प्रतिपादितावसरद्वये साधुः स्वयमेव निर्जरार्थमिच्छाकारं करोति, रत्नाधिकैर्दीयमानकार्यावसरे तु 8 र स्वयमेव निर्जरार्थं कार्यं स्वीकृतं नास्ति, किन्तु स्वयमेव समापतितं कार्यं निर्जराप्राप्तिवैयावृत्यादिप्राप्त्यर्थं तेन । साधुना क्रियत इति विशेषः ।। अत्र यदा निर्जरार्थी साधुः स्वयमेव कार्यकरणायोद्यतो भवति, तदर्थश्च साधोरनुज्ञां याचते, तदापि तेन साधुना न यथा तथैव स्वकार्यं तस्मै दातव्यम् । किन्तु तेनापि निर्जरार्थिनं साधुं प्रति पुनरिच्छाकारप्रयोगः कर्तव्यः यथा → यद्यपि त्वमात्मनैव मत्कार्यं कर्तुं समुत्थितोऽसि, तथाप्यहं पृच्छामि, कि भवान्स्वेच्छयैवैतत्कार्यं करोषि? यदि वा कस्यचिद्बलात्कारेण + इत्यादि। । ननु यदा रत्नाधिक: कस्मैचित्स्वकार्यं समर्पयति, तदा तत्पीडापरिहारायेच्छाकारप्रयोगो युक्तः, किन्तु यदा क्षुल्लकसाधुः स्वयमेवागत्यातीव हर्षपूर्वकं कार्यकरणानुज्ञां याचते, तदा तु तस्य पीडालेशोऽपि न संभवतीति कथं तदा रत्नाधिकेनेच्छाकारप्रयोगः क्रियमाणो युक्तः स्यात् ? निष्फलत्वात्तस्येति चेत् शिष्य ! यद्यप्यत्र रत्नाधिकेन क्रियमाण इच्छाकारप्रयोगः परपीडापरिहाराय न भवति, परपीडाया एवाभावात् । तथापि स प्रयोगः सम्प्रदायपरिपालनार्थं भविष्यति । सम्प्रदायपरिपालनञ्च महनिर्जराकारणमिति प्रतिपादितमेव । इत्थञ्च परपीडापरिहाराभिलाषी साधु त्रेच्छाकारप्रयोगस्याधिकारी, किन्तु जिनाज्ञापालनजन्याया विशेषनिर्जराया अभिलाषुक एवात्रेच्छाकारप्रयोगस्याधिकारी । परपीडापरिहाराभिलाषस्तु गौण एव । स भवतु, न वा भवतु । निर्जराविशेषाभिलाषुकाणां सर्वेषामिच्छाकारप्रयोगस्याधिकारो भवति, तत्तदवसरे च तेन तेषां निर्जरा भवतीति निष्कर्षः । । ननु “परस्मै स्वकार्यदाने इच्छाकारप्रयोगः कर्तव्यः" इति नियमः किं सर्वान्साधून्समाश्रित्य ? यद्वा गुरुं । EEEEEEEEEEEEEEEEEEEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १८० ShorseSTERESERESIDESIDERESTSELETTERRORananesamaaEEEEEEEEEEEursCEB
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy