________________
R
घ
SERE880808050300030808058880030RROREGORGERMERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRREERUTERRRRRRRRRRRRRRRRRRRRRER
ammar UWISER सामायारी व शिष्यः प्राह → यदा रत्नाधिकेन दीयमानं कार्यं कर्तुं क्षुल्लक: साधुः समर्थो भवति, तदा तु स कुर्यादेव। किन्तु यदा स स्वयमेव ग्लानो भवेत्, अन्यद् वा महत्कार्यं गुर्वादिसंबन्धि तस्य कर्तव्यं भवेत्, अन्येन वा
केनापि कारणेन स तत्कार्यकरणाय समर्थो न भवेत्, तदा तेन किं कर्तव्यम् ? – इति । o आचार्यः प्राह- तदापि तेन सहसैव कार्यनिषेधो न कर्तव्यः, यथा "नाहं भवद्कार्यं करोमि" इत्यादि। किन्तु तेन वक्तव्यम् यत् → अहं भवद्कार्यमवश्यम् कुर्याम्, किन्तु मम व्याधिः सञ्जातः, अथवा गुरुणा मह्यमन्यद् महत्कार्यं प्रागेव प्रदत्तं, तदधुना मया कर्तव्यमस्ति, यदि हि मम व्याधिरन्यद् वा कारणं न भवेत्, से तदा तु भवत्कार्यमहमवश्यं कुर्याम् - इति । यदि च तत्र तत्कार्यनिषेधस्य पुष्टं कारणं न कथयेत्, किन्त्वेवमेव प्रतिषेधं कुर्यात्, तदा तु रत्नाधिकश्चिन्तयेत् यदुत → विनयवैयावृत्यादिगुणरहितोऽयं साधुः, यत्सर्वथा प्रतिषेधं करोति । कथमस्य साधुता ? यः परसाहाय्यं न करोति, परसाहाय्यकरणमेव साधोमुख्यो गुणः, तं विना कथं 5 तस्य मुनित्वम् + इत्यादि । एवञ्च परस्परं द्वेषवृद्धिस्स्नेहपरिणामविनाशः, संयमेऽरुचिः संसारस्मरणं 1 चारित्रमोहनीयकर्मबन्धः इत्यादयो बहवो दोषा भवेयुः । तस्मादिच्छाकारं कृत्वाऽवश्यं पुष्टं कारणं कथनीयं, र तदभावे त्ववश्यं तत्कार्यं कर्तव्यमिति ॥६॥
अधुना प्रकारान्तरेणापि प्रकृतेच्छाकारप्रयोगस्थानं प्रदर्शयति । करणं पुण आणाए विरियायारो ति णेव पडिसिद्धं । परकज्जत्थणणासे दटठुणं णिज्जरवाए ॥७॥
परस्मै स्वकार्यं न दातव्यमित्युत्सर्गः । कारणे तु दातव्यमित्यपवादः । किन्तु गुर्वादिकाज्ञां गृहीत्वा । परकार्यकरणं तु नापवादः, स तूत्सर्गः । यतः स वीर्याचारः, वीर्याचारश्चोत्सर्गमार्गः । तथा परकार्यस्य परस्याकौशलेन विनाशं दृष्ट्वा निर्जरार्थं तत्रापीच्छाकारप्रयोगं कृत्वा तत्कार्यं कर्तव्यम् । तथा स्वकार्यार्थं अन्यं, प्रति प्रार्थनां कुर्वन्तं कञ्चन साधुं दृष्ट्वा तृतीयः इच्छाकारपूर्वकं तत्कार्यं कुर्यात् इति गाथासंक्षेपार्थः ।
भावार्थस्त्वयम् । कश्चिद्वृद्धादिस्साधुर्वस्त्रप्रक्षालनं करोति, स च श्रान्तः, तथापि परं साधु साहाय्यदानार्थं न कथयति, लज्जायुक्तत्वात् । किन्त्वन्यः साधुस्तं पश्यति यथा “असौ श्रान्तः, न वस्त्रप्रक्षालनं सम्यग्भवेत्तस्य" ततः स गुरुसमीपे गच्छति कथयति च । “अहमस्मै साहाय्यं ददामि, यतः श्रान्तोऽसौ" इति। यदि गुरुरनुज्ञां ददाति, तदा स तस्मै वृद्धायेच्छाकारसामाचारीपूर्वकं साहाय्यं ददाति । न हि तत्रापि प्रथममिच्छाकारप्रयोगं विना साहाय्यदानं कर्तव्यम् । किन्तु “यदि भवान्मह्यमनुज्ञां ददाति, तदाऽहमिच्छया । भवत्कार्ये साहाय्यं करोमि" इति वक्तव्यं । स च वृद्धः यद्यनुज्ञां ददाति, तदा स साहाय्यं ददाति । अनेन। चैतद्ज्ञायते यदुत "परस्य कार्यं भक्तिभावेनापि तस्यानुज्ञामगृहीत्वा नैव कर्तव्यम्, संक्लेशप्रत्याख्यानभङ्गादिदोषसंभवात्" इति। है तथाहि एको मुनिद्वितीयसाधोरुपधि तमपृष्ट्वैव प्रतिलेखयति । द्वितीयसाधुस्तु तदा कार्यान्तरे व्यग्रोऽस्ति।
तेन च स्वस्योपधिः सम्यक्प्रकारेण संस्थापिता, अनेन तु साधुना प्रतिलेखनानन्तरं तस्योपधिरन्येन प्रकारेण र स्थापिता । द्वितीयसाधुस्तु तत्र पश्चात्समागतः । स तु तामुपधि विपरीतां दृष्ट्वा संक्लेशं करोतीति भवति । प्रतिलेखनं कुर्वाणस्य दोषः ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १८% MERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRREEEEEETTERTREEEERRRRRRRRRRRRRRRRRRRRRRRRRREE