________________
ArterEEEEERemora
WISIR सामाचारी m. साधुस्तं सम्प्रदायं सम्यक्पालयति, तदा तु महत्या निर्जराया लाभस्तस्य भवति ।
इत्थञ्च तेन साधुना परकार्यस्वीकारावसरे समुच्चार्यमाणैर्वचनैर्गुरो रत्नाधिकस्य वा प्रमोदो भवतु मा वा, किन्तु सम्प्रदायपरिपालनं तु तत्र नियमाद् भवत्येव । तेन च नियमाद् महती निर्जरति न कदापीच्छाकारसामाचारी निष्फला भवति ।
शिष्यःप्रश्नयति → यद्यपि सम्प्रदायपालने भवति महती निर्जरा । तथापि तदपालने केवलं निर्जराया । से अभाव एव, न त्वन्यः कश्चिदनों दृश्यते, भवता च तदपालने महाननर्थोऽपि प्रतिपादितः, स तु कथं
भवति ? - इति । ____ आचार्यः प्राह - सम्प्रदीयतेऽनेन गुणा आत्मने इति व्युत्पत्त्या सम्प्रदायो हि गुणानां दायकः । यदि च। से तद्भङ्गो भवेत्, तदा तु गुणप्राप्तिः कथं स्यात् ? किञ्चैवं प्रभूतसाधूभिःसम्प्रदायापालने क्रमशः स सम्प्रदायो मूलत एव व्युच्छिन्नो भवेत् । इत्थञ्च मार्गध्वंसात्मकं महापापमप्यत्र भवतीति युक्तमेव सम्प्रदायभङ्गे महानर्थप्रतिपादकं वचनम् ।
तथेत्थं गुर्वादिकार्यं सहर्षमिच्छाकारपूर्वकं स्वीकुर्वाणस्य विनयवैयावृत्यगुरुबहुमानदोषक्षयादयो। की बहवोऽन्येऽपि लाभा भवन्ति ॥५॥
ननु परकार्यं कुर्वाणस्य भवन्त्वेते लाभाः, यस्तु स्वकार्य परस्मै ददाति, तस्य तदेच्छाकारकरणे के गुणा:? इति चेत् श्रुणु ! तस्यापि सम्प्रदायपरिपालनजन्या महती निर्जरा भवतीत्येको लाभः । तथा → "यद्यहमिच्छाकार विना बलात्कारेणाज्ञाकरणादिना वा परस्मै साधवे स्वकार्यं दद्याम्, तदा तु तस्य मनसि कदाचित्स्वल्पोऽपि संक्लेश: संभवेत् । तस्य मदुपर्येवासद्भावः स्यात् । एवञ्च साधौ द्वेषं कृत्वा स महत्कर्मबन्धं कुर्यात्, अहन्तु । तस्मिन्निमितो भवेयम् । न हि ममैतद्योग्यम् । यतो मुनीनां सर्वे जीवा आत्मतुल्या भवन्ति, ममापि तथैव सर्वे जीवा आत्मतुल्याः । विशेषतश्चेमे मुनयः, येऽनवरतं मह्यं साहाय्यं ददति । तस्माद्यथा मन्निमित्तको लेशोऽपि खेदोऽस्य न भवेत्तथैव मया वर्तितव्यम् । तदर्थञ्च नियमादिच्छाकारप्रयोगः करणीयः" इत्यादि मैत्रीभावनापरिकलितहृदयः स स्वकार्यदानावसर इच्छाकारप्रयोगं करोति । एतादृशश्च निर्मलोऽध्यवसाय (उच्चैर्गोत्रादिशुभकर्मबन्धं विदधाति । न हि शुभकर्मणां बन्ध एकान्ततः साधूनामप्रार्थनीयः, यतः भावतीर्थकरजैनधर्मादिप्राप्त्यर्थं शुभकर्माण्यपि समादरणीयानि भवन्ति ।
तथा तेनैव शुभपरिणामेन नीचैर्गोत्रादिनामशुभकर्मणां हानिरपि भवति। ___ तथा तयोर्द्वयोस्साध्वोस्तथाविधं लोकोत्तरं शुभाचारं दृष्ट्वा श्रावकादीनां जिनशासने बहुमानः प्रादुर्भवति यथा → अहो ! जैनसाधवो निपुणार्थदर्शिन भवन्ति, अत एव स्वल्पस्यापि परखेदस्य परिहारार्थमित्थं प्रयतन्ते
इति । शासनबहुमानादिना च तेषां सम्यग्दर्शनादिप्राप्तिः, कदाचित्सर्वविरतिपरिणामोऽपि च भवेत् । एवञ्च १ जिनशासनस्याविच्छिना परंपराऽपि प्रकृतसाधुना साधिता भवेदिति महान्लाभो भवति तस्य । 1 इत्थञ्च कार्यदातुः कार्यस्वीकर्तुश्च द्वयोरपि बहूनां लाभानां संभवात् उभाभ्यामिच्छाकारसामाचारी प्रतिपादितावसरे परस्परं करणीयेति फलितम् ।
WEEEEEEEEEE
22800tcam
000000000000000000000000
EEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८५ Teactresssansamacuate
m arwareneurs