________________
66666
ઈચ્છાકાર સામાચારી
कल्पद्रुमलाभकल्प" इत्यादि भावमात्रेण वा वीर्याचारविशोधितस्य चारित्रस्योचितां निर्जरां न प्राप्नुयात् । तस्य शुभभावजन्या निर्जरा भवति, किन्तु वीर्याचारपरिपालनजन्या निर्जरा न भवतीति हृदयम् ।
अत एव परेषां सुकृतानामनुमोदनमवश्यं कर्तव्यम्, न तु शुभभावमात्रेण संतोषः कार्यः । साधवः श्रावका वा यदा विशिष्टतपः स्वाध्यायं वैयावृत्यं परुषवचनसहनशीलतां क्षमां मृदुतां सरलतां वा सम्यक्सेवेरन् तदा “वन्देऽहं भवन्तम्, न हि विषयवासनाव्याकुले चित्ते सति गुणविकासः कर्तुं पार्यते, भवता तु मोहराजः पराजितः" इत्यादि शोभनवचनैरन्तर्गतशुभभावसहितैस्तेषामनुमोदनमवश्यं कर्तव्यम् । एवमेवोपबृंहणस्थिरीकरणादिसम्यग्दर्शनाचाराः परिपालिता भवन्ति । तादृग्वचनानामनुच्चारणे पुनस्सत्यपि शुभभावे सम्यग्दर्शनाचाराणामुपबृंहणस्थिरीकरणादीनामपालनात्सम्यग्दर्शनमालिन्यं भवति । तस्मात्सम्यग्दर्शन विशुद्ध्यादिकमीहमानेनात्ममोक्षार्थमपि शोभनवचनैः परेषामनुमोदनं कर्तव्यम् ← इत्यस्मद्गुरवः कथयन्ति ॥४॥
जिज्ञासुः पृच्छति → “शोभनवचनानुच्चारणे दोषा भवन्ति" इति तावज्ज्ञातं । ततश्च तदुच्चारणे ते दोषा न भवन्तीति फलितम् । तत्किमेतावानेव दोषाभावरूपो लाभः ?, उतान्योऽपि कश्चिल्लाभो भवति शोभनवचनोच्चारणे ?, तत्कथयतु भवान् ।
गुरुराह ।
अब्भत्थणाविहाणे इच्छाकारो समुचिओ दोण्हं । आराहणमाणाए गुरूण ठिइपालणं च जओ ॥५॥ उच्चागोअविहाणं अभिओगणिमित्तकम्महाणी अ । सासणमाणो अहवे एतो च्चिय हंदि सुहभावा ॥६॥
परस्मै स्वकार्यदानावसरे दातुरिच्छाकारकरणं समुचितम् । तत्कार्यस्वीकारकाले च स्वीकर्तुरपि शोभनवचनादिरूपेच्छाकारकरणं समुचितम् । “तत्र के लाभा भवन्ति" इति तु जिज्ञासायां प्रथमं यस्मै तत्कार्यं दीयते, येन शोभनवचनोच्चारद्वारा तत्कार्यं स्वीक्रियते, तस्य " के लाभा भवन्ति ?" इति दर्शयति ।
गुरुणा रत्नाधिकेन वा शिष्याय क्षुल्लकाय वा तत्पीडापरिहारायेच्छाकारपूर्वकं स्वकार्यं प्रदत्तम् । तत्र स शिष्यः क्षुल्लको वा मुखे हर्षोद्भावनपूर्वकं शोभनवचनोच्चारपूर्वकञ्च तत्कार्यं यदि स्वीकरोति । तदा " अहोऽस्य विनयः, अहोऽस्य वैयावृत्यकरणतत्परता, स्वार्थं विना परकार्यकरणोद्यमवन्तः साधवोऽपि दुर्लभा एवास्मिन्जगति । अयं तु निःस्वार्थमेवात्मानं कृतकृत्यमिव धन्यातिधन्यमिव मन्यमानो मत्कार्यं करोति । भवत्वस्य सहसैव परमपदप्राप्तिः" इत्यादिको हर्षो गुर्वादीनां मनसि प्रादुर्भवति । एवञ्च गुर्वादीनां प्रसन्नताकरणे स शिष्यो निमितं भवति, गुर्वादीनाञ्च प्रसन्नतोत्पादने निमित्तभूताः साधवो नियमात्प्रकृष्टं तथाविधं पुण्यकर्म प्राप्नुवन्ति, येन शुभभवपरंपरया झटिति मोक्षो भवति तेषामिति परमपदप्राप्तिप्रयोजकस्तथाविधः पुण्यकर्मबन्धरूपः प्रथमो लाभोऽस्य भवति ।
तथा गुरुणा रत्नाधिकेन वा यत्कार्यं प्रदत्तं, तत्कार्यं इच्छाकारपूर्वकं कुर्वन् गुर्वादीनामाज्ञामाराधयति । तथा "परकार्यस्वीकारावसरे शोभनवचनोच्चारणादिरूपेच्छाकारसामाचारी परिपालनीया" इति संप्रदायः यदि साधुस्तं न पालयति, तदा तु तस्य परकार्यकरणेऽपि सम्प्रदायभङ्गप्रयुक्तो महानर्थः संभवति । यदि च
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७४