________________
SSSSSSSSVEER
GEEEEE
mmmmmmmmmm
m WISIR सामाचारी भवति, यदुदयात् स भवान्तरे सेवकभावमवाप्नोति । तस्मादपायभीरुणा न कुत्रापि कस्मैचिद् बलात्कारादिनार स्वकार्यं दातव्यमिति निष्कर्षः ।
शिष्यः प्राह → "ननु स्वकार्यदातृणा कदा कस्मै केन प्रकारेण स्वकार्यं दातव्यम्" इति ज्ञातं मया। किन्तु यस्मै तत्कार्यं दीयते, तेन तदा किं कर्तव्यम् ? किं तस्य कार्यस्य स्वीकारः कर्तव्यः ? किं वा निषेधः ? स स्वीकारो निषेधो वा केन प्रकारेण कर्तव्य इत्येतत्सर्वं ज्ञातुमभिलसति मे मनः + इति ।
गुरुः कथयति → सोऽपि क्षुल्लकादिस्साधुर्महता हर्षेण तत्कार्यं स्वीकरोति । "अहो धन्यो जातोऽहमद्य, २ यन्मया भवत्कार्यकरणावसरः संप्राप्तः, महानुपकारः कृतो युष्माभिर्मयि, यन्मह्यमेतत्कार्यं दत्तं । न कुरुष्व कामपि चिन्तां, करोम्यहं स्वेच्छया भक्तिनिर्भरण चेतसा भवत्कार्यं । दुर्लभतमं खल्वनादिभवार्णवे महामुनीनां वैयावृत्यम्" इत्यादि शोभनवचनैस्तत्कार्यं स्वीकर्तव्यम् । यथायोगञ्च तत्पूर्णं कर्तव्यम्, न त्वालस्यं विधेयमिति।
ननु किमनेन वागाडंबरेण ? साधूनां वैयावृत्यमवश्यं महानिर्जराकारि, न तु मिथ्या वाग्विलासः । स तु दाम्भिकानां शोभते, न तु सुविहितसाधूनां । साधुना तु "अहं भवत्कार्यं करोमि" इति । कथयित्वा करणीयं से तत्कार्यम्, न हि तादृशी वाग्वक्तव्येति चेत् न, यतो यदि स साधुस्तथाविधां वाचमनुक्त्वैव तत्कार्यं कुर्यात्,
तदा यद्यपि तस्य मनसि वैयावृत्यकरणशुभभावो वर्तते, तथापि कार्यदाता गुरुः रत्नाधिको वा तस्य मुखे। हर्षादिभावमदृष्ट्वा, तस्य मुखात्शोभनवचनान्यश्रुत्वा विचिन्तयेत् यदुत → "कदाचित्स स्वमनस्यार्तध्यानमपि से प्राप्तो भवेत्, न हि तस्यास्मवैयावृत्ये समुल्लासो दृश्यते । तस्मादस्माभिर्न सुष्ठ कृतं, यदस्मै कार्यं दत्तं ।। भविष्यत्काले पुनर्न कदाचिदपि तस्मै स्वकार्यं दास्यामो वयं - इति ।
एवञ्च रत्नाधिकानां खेदो भवेत् । भविष्यत्काले पुनस्तेषां वैयावृत्यस्य लाभो न भवेत् । परस्परं । कदाचित्स्नेहपरिणामस्य हानिर्भवेत् । कदाचित्शत्रुभावोऽपि परस्परं स्यात् । तेन च सर्वजीवस्नेहपरिणामस्वरूपस्य चारित्रपरिणामस्य विध्वंसो भवेत् । किं बहुना ? "तादृशी वाक् तदा वक्तव्या" इति त्रिलोकीनाथस्य सर्वज्ञस्य करुणाकरस्य तीर्थकरस्य सर्वजगज्जीवहितकारिण्याज्ञाऽनेन खण्डिता भवेत् । तस्मात् मिथ्याविकल्पं परित्यज्य जिनाज्ञापालनमात्रैकरसिकेन भवितव्यं मुमुक्षुणा। ____ किञ्च तदा क्षुल्लकस्य मनसि यो रत्नाधिकवैयावृत्यकरणलाभसमुत्थः शुभो भावो वर्तते, स तु यद्यपि तस्मै । र स्वजन्यां निर्जरां ददाति । किन्तु शोभनवचनादिरूपवीर्याचारपालनाभावे तज्जन्या निर्जरा कथं तस्य भवेत् ? एवञ्च यदि संपूर्णा निर्जरा लब्धुमिष्येत, तदा तु शुभभाववद्वीर्याचारपालनेऽपि प्रमादत्यागोऽवश्यं विधेयः । इदञ्च कार्यदातुर्कार्यस्वीकर्तुश्चोभयोरपि दृष्टव्यम् । उभाभ्यां स्वोचितः शुभवचनोच्चारणादिरूपो वीर्याचार: पालनीयः ॥३॥
एतदेवाह। ण य केवलभावेणं हियकज्जे वीरिअं णिगृहंतो । विरियाचारसोहियचरणोचियणिज्जरं पावे ॥४॥ ___ कार्यदानावसरे इच्छाकारादिकरणरूपहितकार्ये, कार्यस्वीकारावसरे च मधुरवचनोच्चाररूपहितकार्ये स्ववीर्यं । निगृहन् कार्यदाता कार्यस्वीकर्ता वा केवलभावेन="परपीडा न कर्तव्या" इत्यादिभावमात्रेण "वैयावृत्यलाभ:
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८३ WRESTEROINETROLORamannamumemusaREERRRRRRRRRRRRRRRRImesed
WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE