________________
SSSSSSSSSSSSSSSSSSSSSS
HIERGREEEEEEEEEEEEEEEEEEE888888888ERRORRRRRRRRRRRRRRRREE
ARRIERRIERRITERATRITERATUR
WIR सामायारी तच्चान्येऽपि साधवः कर्तुं प्रभवन्तीति तदा स साधुः स्ववस्त्रप्रक्षालनगोचरीगमनादिकार्यं नान्यस्मै साधवे दत्त्वा र * गुरोर्वस्त्रप्रतिलेखनादिकार्यं कर्तुं योग्यो भवति । एवमन्येऽपि दृष्टान्ता अनयैव रीत्या स्वयं विचारणीयाः ।
तथा समापतितं नूतनं कार्यं यदि क्रियमाणकार्यापेक्षया महतीं निर्जरां न जनयति, तदाऽपि स साधुन । क्रियमाणं कार्यमन्यस्मै दातुं योग्यो भवति । यथा स साधुरतीवग्लानमुनेस्सेवां करोति, तदैव च। व्याख्यानकरणादिकं किञ्चित्कार्यं समापतितम्, तदा गाढग्लानसेवायाः सकाशाद् सामान्यं व्याख्यानकरणादिकं न महतीं निर्जरां जनयितुं समर्थम् । अतस्तदा स साधुग्लानसेवामन्यस्में दातुं न योग्यो भवात । एतत्सर्वं स्वयमेव सूक्ष्मप्रज्ञया विभावनीयम्, प्रतिपादिताया अवस्थाया प्रभूतेषु प्रसङ्गेषु संभवात् ।
न्तरं यानि त्रीण्यपवादस्थानानि प्रतिपादितानि, तदवसरे साधुस्स्वकार्यमन्यस्मै दातुं योग्यो भवतीति । फलितम् ।
किन्त्वपवादस्थानेष्वपि तत्स्वकार्य कस्मै साधवे दातव्यमिति प्रश्नः शिष्यमनसि समुत्पद्यते । अतस्तस्याप्युत्तरं प्रयच्छति ग्रन्थकृत् । तथाहि - प्रतिपादितेष्वपवादस्थानेष्वपि साधुना स्वकायं रत्नाधिकाय नैव दातव्यमपि तु स्वस्मात्क्षुल्लको यः साधुः, तस्मै दातव्यम् । रत्नाधिका हि साधवो वन्दनार्हाः पूजनीयाः, अनुमोदनीयाः च, न तु कार्यं दातुं योग्याः । तेभ्यो हि स्वकार्यदाने तेषामाशातना भवतीति कृत्वाऽपवादस्थानेष्वपि रत्नाधिकेभ्यो न स्वकार्यं दातव्यम् - इति ।
शिष्यः पृच्छति → यद्येवं, तहि यः साधुः सर्वमुनिभ्यः क्षुल्लकः, सर्वे मुनयस्तत्सकाशात् रत्नाधिकाः, स तु तथाविधापवादस्थानेषु कस्मै स्वकार्यं दास्यति ? क्षुल्लकसाध्वभावात् - इति ।
गुरुस्तु प्राह → अपवादतस्तस्य रत्नाधिकेभ्योऽपि स्वकार्यदानस्यानुज्ञा । एवमेव यदा क्षुल्लके साधौ। विद्यमानेऽपि तस्मै स्वकार्यं दातुं न शक्यं भवति, तस्यैव ग्लानत्वादियुक्तत्वात्, तदाऽपि विवक्षितः साधुः। रत्नाधिकेभ्यः स्वकार्यं दातुं योग्यो भवतीत्यपि दृष्टव्यम् । ___एवञ्च प्रतिपादितेष्वपवादस्थानेषु यदा साधुः स्वकार्यमन्यस्मै क्षुल्लकसाधवे दातुं योग्यो भवति, तदा स केन प्रकारेण तस्मै स्वकार्यं ददाति ? किमाज्ञया ?, किं वा बलात्कारेण ?, किं वाऽन्येन प्रकारेण ? इति । दर्शयितुं प्रारभ्यते ।
स तु स्वकार्यदाता साधुरिच्छाकारेण तत्कार्यं तस्मै ददाति । यथा "त्वमिच्छया ममेदं कार्यं करोषि ? मम तु व्याधिस्सञ्जातः श्रान्तो वा दीर्घविहारेण, यदि भवतो मत्कार्यकरणे काऽपि बाधा न भवेत्तदैव मत्कार्यं । करणीयम्, न हि मम कोऽप्याग्रहोऽस्ति" इति । ___यदि तु कारणेऽपि मुनिरन्यस्मै बलात्कारेणाज्ञाकरणादिना स्वकार्यं प्रयच्छेत्, तदा तस्याभियोगिककर्मबन्धो । नीचुर्गोत्रादिबन्धलक्षणो भवेत् । नीचैर्गोत्रञ्च प्रथमद्वितीयगुणस्थानयोर्मध्य एव बध्यत इति "क्षुल्लकसाधु प्रति से अपि बलात्कारं प्रयुञ्जानो मिथ्यात्वगुणस्थानभाक्संभवति" इत्यर्थापत्त्या ज्ञायते । ई युक्तश्च तस्य कर्मकरत्वादिप्रयोजक आभियोगिककर्मबन्धः, यतो यो यादृक्कार्यं करोति, तस्य फलमपि तादृगेव संपद्यते । परं प्रति बलात्कारं कुर्वाणो मुनिस्तं किंकरं करोति, ततश्च तस्य तथाविध एव कर्मबन्धो
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८२ PrecaummmmmmmmmmmRRORRORammmmmsam0000000000000000000msards