________________
EEEEEEEE393
erratanREEEEEEEEEEEEG
HEROTESORTERIORRRRRRRRRRRRRRRRRRRR000000000000003083
ARRORRORRERTERESTERIONERIN
E ERE IS२ साभायारी कर्तव्यानि । न हि रत्नाधिकानां क्षुल्लकानां वा साधूनां लघूनि महान्ति वा स्वकार्याणि रत्नाधिकेभ्यः क्षुल्लकेभ्यो वाऽन्यसाधुभ्यो दातुं कल्पन्ते, स्ववीर्यगोपनेन वीर्यातिचारसंभवात् । वीर्यातिचारश्च सर्वयत्नेन वर्जनीयः, अन्यथा से वीर्याचारापालनप्रयुक्तवीर्यातिचारेण वीर्यान्तरायकर्म बध्यते । तच्च कर्म भवान्तरे तपःकरणादिशक्तिबाधकं भूत्वा
परमपदप्रतिबन्धकं भवति । अत एवावश्यकनियुक्तौ "स्वयंदासास्तपोधनाः" इति निगदितम् । यथा हि राजा कस्मिन्नपि कार्ये समागते सति तत्करणाय स्वसेवकान्समादिशति, तथैव तपोधना मुनयः स्वयमेव स्वस्य । सेवका भवन्ति, अर्थात् कस्मिन्नपि कार्ये समागते सति ते मुनय आत्मानमेव समादिशन्ति, न त्वन्यं क्षुल्लकमपि मुनि । यदि हि साधूनां क्षुल्लकसाधुभ्योऽपि स्वकार्यदानं निषिद्धम् । तर्हि "श्रावकेभ्यो जलानयनवस्त्र-8 प्रक्षालनादिस्वकार्याणां दानं सर्वथा प्रतिषिद्धमेव भवति" इति ज्ञायते । अत एव ये निर्ग्रन्था निर्ग्रन्थ्यश्च । प्रमादादिदोषव्याकुलाः जिनाज्ञामुपेक्ष्य सुखशीलतां समाश्रित्य न केवलमन्यसंयमिभ्यः, किन्तु
श्रावकादिभ्योऽपि निष्कारणमेव स्वकार्याणि प्रयच्छन्ति, तत्र संभवन्तमसंयममपि न विचारयन्ति, तेषां जिनाज्ञा के प्रति निष्ठुराणां का दशा भविष्यतीति तु न वयमपि कथयितुं पारयामः । दुरन्तो भविष्यति तेषां भयावहो । भवोदधिरिति तु संभावयामः ।
एष तावदुत्सर्गमार्गो निगदितः । करुणाप्रधानास्तीर्थकरा अधुनाऽपवादमपि दर्शयन्ति । तथा हि -
(१) यदा साधुर्वृद्धत्व-महारोग-दीर्घविहारपरिश्रम-शरीरदौर्बल्यादिवशतः गोचरीवस्त्रप्रक्षालनप्रति-8 लेखनादीनि स्वकार्याणि कर्तुमसमर्थो भवति, तदा स इच्छाकारसामाचारी पालयित्वा स्वकार्याणि 8 क्षुल्लकसाधुभ्यो दद्यात् ।
(२) एवं यदा साधुस्स्वकार्याणि कर्तुं समर्थोऽपि तत्कार्यकरणविधिमेव न जानाति, "यथा नूतनदीक्षितो. 1 मुनिः वस्त्रप्रक्षालनवस्त्रसीवनादिकं न जानाति" तदा स साधुः तत्कार्यमन्येभ्यो दातुं योग्यो भवति । 4 (३) तथा यदा स साधुस्स्वकार्याणि कर्तुं समर्थो भवति, तद्विधिमपि संपूर्ण जानाति, किन्तु तत्कार्यावसर
एवान्यन्महत्कार्यमापतेत् । तच्च कार्यं प्रकृतसाधुं मुक्त्वा नान्यः कोऽपि कर्तुं समर्थोऽस्ति । तथा 8 से समापतिततत्कार्यकरणे यदि महती निर्जरा संभवति, तदा स साधुस्स्वकार्यमन्येभ्यो दत्त्वा समापतितकार्यं ।
कर्तुमर्हति । यथा कश्चित्तार्किकः साधुर्वस्त्रक्षालनं करोति । तदैव देशान्तराद्महापण्डितः समागतः । गुरुणा तु । तेन सह वार्तालापादिकरणाय स तार्किकः साधुराकारितः । अत्र हि न तं मुक्त्वाऽन्यः कश्चित्तेन पण्डितेन सहर
वक्तुं समर्थः । तथा तेन सह वार्तालापादिकरणे महती निर्जराऽपि संभवति, स्वशंकानिरासात्, पण्डितहृदये जिनधर्मबहुमानादिसंभवात्, गुर्वाज्ञापालनाच्च । ततश्च तदा स तार्किकः क्षुल्लकमुनिवस्त्रप्रक्षालनकार्यं समर्प्य 8 गुरुकथितं तत्कार्यं कर्तुमर्हति । एवमेव व्याख्याता कश्चित्साधुः यदा मध्याह्ने गोचरीमानेतुं बहिर्निर्गमनाय प्रगुणो भवति, तदैव समागता ग्रामान्तराद् बहवो जनाः, व्याख्यानश्रवणाभिलाषुकाश्च याचनां कुर्वन्ति ।
तदाऽन्यव्याख्यात्रभावात् स साधुर्गोचर्यानयनकार्यमन्यक्षुल्लकसाधवे दत्वा प्रयच्छति तेभ्यो व्याख्यानम् । र अत्रेदं बोध्यम् । समापतितं नूतनं कार्यं यद्यन्यः कश्चित्साधुः कर्तुं समर्थो भवति, तदा तु न प्रकृतसाधुः स्वकार्यमन्यस्मै दत्वा तत्कार्यं कर्तुं योग्यो भवति । यथा गुरोर्वस्त्रप्रतिलेखनादिकं कार्यं समापतितम्,
55555555555555555555555555
EEEEEEE
WEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • ११ WESTERNETROOTERESTEROINEERICURRIERRECORRESOURCES