________________
RRIE
R
WISIR सामायारी AR मु अन्यदा तत्र कश्चिद्गीतार्थः समागतः, स च तत्र स्थितः सन् क्रमेण सर्वमपि तवृत्तान्तं ज्ञातवान् । सब तु गच्छाचार्यं ज्ञापितवान् यदुत "भवद्भिरीदृशी प्रशंसा न करणीया, अन्येषां साधूनां मिथ्यात्वगमनसंभवात् ।। किन्तु प्रतिदिनं निष्कारणमतिचारान्सेवमानः स शिष्यो निष्ठुरवचनैर्दण्डनीयः । यदि तथापि स तानतिचारान्न की परित्यजेत् तदा गच्छान्निष्काशनीय" इति ।
किन्तु मूढो गच्छाचार्यस्तं कुशिष्यं प्रति मिथ्यानुरागेण बद्धहृदयः सन् न तद्गीतार्थवचनमङ्गीकृतवान् । गीतार्थसाधुना पश्चात्सर्वसाधुभ्यः सम्यशिक्षा प्रदत्ता, यथा “तवायं गुरुरगीतार्थः सन् पाषाणनौकल्पः स्वं
युष्मा॑श्च भवोदधौ निमज्जयिष्यतीति मुञ्च तं गुरुम्" इत्यादि। 2 अनेन कथानकेनैतद् ज्ञायते यदुत "प्रतिदिनमतिचारानालोच्य स कुसाधुमिथ्याकारवचनानि ब्रूवन्नपि हृदये। ३ कपटादिभावदुष्ट एवासीत् इति मिथ्याकारवचनादिरूपहेतुभिरन्तर्गतशुभपरिणामानुमानं न संभवति" इति।
एवं शिष्यप्रश्ने सति गुरुस्तां जिज्ञासां संतोषयति → के वलमिच्छाकारादिवचनानि न वक्तृगतभावानुमापकानि, किन्तु माया-कपटादिरहितान्येव तानि वचनानि वक्तृगतशुभभावानुमापकानीति न कश्चिद्दोषः । तथा च "अयं साधुः मिथ्याकारसामाचारीपरिणामवान् मायाविरहितमिथ्याकारवचनवक्तृत्वात्" 8 से इत्याद्यनुमानानि फलितानि । यद्यत्र तस्मिन्साधौ मायासद्भावेऽपि सा माया न ज्ञायते, तदा त्वनुमानं मिथ्या ।
भवेत् । यदि च सूक्ष्मदर्शनेन सा माया ज्ञायेत, तदा तु प्रकृतानुमानमेव न भवेदित्यादि स्वयं दृष्टव्यम् । ३ अनयैव रीत्या निर्युक्तौ प्रतिपादितमप्यनुमानमवगन्तव्यम् तथाहि-"अयं सुविहितसाधुः सम्यगालयविहारादिजिनाज्ञापालकत्वाद्" इत्यत्र यदि स जिनाज्ञापालनमकुर्वन्नपि मायया जिनाज्ञापालक इव दृश्यते, तदा तु तदनुमानं मिथ्या भवेत् । यदि च स निर्मायावी सन् सम्यगेव जिनाज्ञां पालयति तदा तु तदनुमानं सम्यगेवेति। एवं तावन्निश्चयनयो निरूपितः। व व्यवहारनयस्तु वक्ति → तत्तत्सामाचार्यवसरे साधुभिर्यो वाक्यप्रयोगः “त्वमिच्छया मत्कार्यं करोषि ?" इत्यादिरूपः क्रियते, स एवेच्छाकारादिसामाचारी । तत्रापि शुद्धव्यवहारनयस्तु मन्यते "शुभभावपूर्वको दशविधशब्दप्रयोग एवेच्छाकारादिरूपा दशविधा सामाचारी, न तु शुभभावविरहित" इति । अशुद्धव्यवहारस्तु । मन्यते → शुभभावपूर्वकः शुभभावविरहितो ता सर्वोऽपि दशविधशब्दप्रयोगः स्वावसरे क्रियमाणः दशविधा सामाचारी - इति ॥२॥
तत्रेच्छाकारसामाचारी प्रथमं निरूप्यते । जंणियणियकज्जमी इच्छासंपच्चयत्थं विहिवकं । सो खलु इच्छाकारो, तहा पइण्णा परकज्जे ॥३॥
निजनिजकार्ये यदिच्छासम्प्रत्ययार्थं विधिवाक्यमुच्यते, तद्वाक्यमिच्छाकारः । तथैव परकार्ये या स्वस्य । ॐ प्रतिज्ञा, सापीच्छाकार इति गाथासंक्षेपार्थः ।
विस्तरार्थस्त्वयम् । मुमुक्षुणा स्वस्य सर्वाण्यापि कार्याणि प्रतिलेखनवस्त्रप्रक्षालनस्थण्डिल-प्रश्रवणपरिष्ठापनादीनि स्वयमेव
EEEEEEEEEEEEEE
EEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEH
e
aseeeeewwwscessarsa
weresasareewawwareness
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १६० RECRUIROIRRRRRRRRRRRRRRRRRRRRRRRs100006658000 m allB