________________
GEEEEEEEEEEEEmail
SearccERREETTERESEGRE8888888888ER
EMAITRIN
I TINENT
WISIR सामायारी ' अत्र हि सामाचारी त्रिविधा, तत्राहोरात्रसंबंधिप्रतिक्रमणप्रतिलेखनसूत्रपौरुष्यर्थपौरुषीभिक्षाटन- स्थण्डिलगमनादिक्रियाकलापसंबन्धिनी प्रथमा ओघसामाचारी । द्वितीया तु प्रकृतग्रन्थे निरूपयिष्यमाणा दशविधचक्रवालसामाचारी । तृतीया पुनयिश्चित्तादिसंबन्धिनी पदविभागच्छेदसामाचारीति । ____ अत्र तु दशविधचक्रवालसामाचारी निरूपयितुमारब्धेति बोध्यम् । तत्र सामाचारीस्वरूपं निश्चयव्यवहारमताभ्यां दर्शयति ।
एसा णिच्छ्यणयओ इच्छाकाराइगेज्ज्ञपरिणामो। ववहारओ अदसविहसदुपओगो मुणेअव्वो ॥२॥ निश्चयनयो हि बूते → "त्वमिच्छया मत्कार्यं करोषि?" "मिथ्या मे दुष्कृतं भूयात्,""गुरो ! यद्भवता प्रतिपादितं, तत्तथैव, नात्र कश्चित्संदेहो मम" इत्यादिवाक्यैः तत्तत्सामाचार्यवसरे साधुनोच्चारितैर्यो। वक्तृमुनिहृदयगतो निर्मलपरिणामोऽनुमीयते, स परिणामविशेष एवेच्छाकारादिरूपा सामाचारी, न तु तानि वाक्यानि सामाचारीरूपाणि । तथा चेच्छाकारसामाचार्यवसरे "त्वमिच्छया मत्कार्यं कुर्याः ?" इत्यादि। वाक्येनानुमीयमानः परिणामविशेष इच्छाकारसामाचारी, संयमयोगस्खलनादिरूपे मिच्छाकारसामाचार्यवसरे: 'मिच्छा मि दुक्कडं' इति कथ्यमानेन वाक्येनानुमीयमानः परिणामविशेषो मिथ्याकारसामाचारीत्येवं तत्तत्सामाचार्यवसरे प्रोच्यमानैस्तथाविधवाक्यैरनुमीयमानाः परिणामविशेषास्तत्तत्समाचारीरूपा इति हृदयम्।
अत्रान्तरे जिज्ञासुः शिष्यः प्रश्नयति - भगवन् । भवद्भिरधुना निश्चयनयो दर्शितः, तत्र चेच्छाकारादिवाक्यैर्वक्तृगतशुभपरिणामविशेषानुमानं प्रतिपादितम् । किन्तु तन्न सङ्गच्छते । यतो ये साधव, आत्मानं सामाचारीनिपुणं स्थापयितुमिच्छन्ति, ते हि हृदये शुभपरिणामाभावेऽपि स्वकीया॑द्यर्थमेवेच्छाकारादिकं कुर्वन्ति । तत्र चेच्छाकारादिवाक्यसद्भावेऽपि शुभपरिणामाभावो वर्तत इति कथं तादृशवाक्यात्मकहेतुना। शुभपरिणामविशेषानुमानं शक्यं स्यात् ? अत्र हि मत्पदार्थदृढतार्थमनुयोगद्वारप्रतिपादितं दृष्टान्तमपि दर्शयामि ।। __तथा हि - एकत्र गच्छे कश्चित्साधुःप्रतिदिनं गोचर्यादिषु सचित्तसंघट्टनस्थापनादिदोषं संसेव्य दैवसिकप्रतिक्रमणकाले सर्वमुनिगणसमक्षं महता स्वरेणात्मानं निन्दन्दैवसिकानतिचारानालोचयति । तस्य गुरुस्तु गच्छाचार्योऽगीतार्थोऽभवत् । अतः स गुरुस्तं प्रशंसति यथा "अहोऽस्य पश्चात्तापपरिणामः, को नाम अनादिवासनावासितान्तःकरणो दोषशतपरिपूरितोऽतिचारादीन्न सेवेत ? यस्तु तान्संसेव्यापि निष्कपटो भूत्वा प्रायश्चितं करोति, स धन्यातिधन्यः" इति । किन्तु स्वयमगीतार्थः स न जानाति यदुतानाभोगादिवशादति
चारान्संसेव्य महता संवेगेन प्रायश्चित्तकरणे एव धन्यातिधन्यत्वम्, तथाऽतिचारस्वरूपं ज्ञात्वाऽपि निष्कारणं से निष्ठुरतादिवशात्सकृविर्वा तान्संसेव्य तदनन्तरं समुत्पन्नपश्चात्तापेन प्रायश्चित्तकरणे एव धन्यातिधन्यत्वम् । यस्तु प्रतिदिनं प्रायश्चितम् करोति, निष्ठुरतया च पापं कुरुते तस्य केवलं मायामृषामिथ्यात्वादिदोषविलास एव । तत्र दृश्यमानो महान् संवेगः परमार्थतो न सम्यग्भवतीति । ___ एवञ्च गुरुणा क्रियमाणां तस्य निष्ठुरस्य प्रशंसां श्रुत्वाऽन्ये साधवो विचारयितुं लग्नाः, यदुत "न पापकरणे र तथाविधः कश्चिद्दोषः, किन्तु पापं कृत्वाऽवश्यं प्रायश्चितं करणीयम् । एवञ्च भविष्यति निष्कारणं पापसेवनेऽप्यस्माकं मोक्ष" इति । इत्थञ्च ते विपरीतमत्यः सञ्जाताः ।
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८८ . MERESERESTEGHSSSSSSSSSSSSSSSSSEEGRESSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSTERESEREEEEEEEEEEEE