________________
SREERam I IIIIIIIIIII [UISIR सामाचारी महामहोपाध्यायश्री यशोविजयविरचित सामाचारीप्रकरणग्रन्थानुसारिणी
दशविध चक्रवालसामाचारी
EssttaemarEEEEEEEEEEEEERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR888888883EERGREE
एँ नमः से श्रीमते वीरनाथाय, सनाथायाद्भुतश्रिया । महानन्दसरोराजमरालायार्हते नमः ॥१॥ कृतापराधेऽपि जने, कृपामन्थरतारयोः । इषद्बाष्पार्द्रयोर्भद्रं श्रीवीरजिननेत्रयोः ॥२॥
यथा हि शोभनरूपलावण्यसंस्थानबलादिमन्तं बहुमूल्यालङ्कारसमलङ्कृतं कस्यचित् महारोगिणो देहं दृष्ट्वा । । तच्छोभा-समाकृष्टहृदया अन्ये जनाः परितोषं प्रानुवन्ति । स तु महारोगी अन्तर्गतगूढरोगजन्यमहावेदनाव्याकुलः। सन् न किमपि स्वस्यैव शोभनदेहस्य बहुमूल्याभरणालंकृतस्य सुखं प्राप्नोति, एवमेव प्रमादसमन्वितस्वाध्यायघोरतपोऽनुष्ठान-बहुजीवप्रबोधकव्याख्यानमहामन्त्रजपादिभूषणभूषितानां दशविधचक्रवालसामाचारीपालनविषयकप्रमादादिरोगसमन्वितानां निर्ग्रन्थानां बाह्यशोभादिकं दृष्ट्वा प्रमुदिता सन्तो बहवो जनाः
सम्यग्दर्शनादिकं प्राप्नुवन्त्यपि, किन्तु चारित्रकल्पद्रुममूलीभूतानां दशविधचक्रवालसामाचार्यादिरूपजिनाज्ञानां व पालने मन्दा निरपेक्षाः प्रमादिनो निर्ग्रन्था अत एव शुभपरिणामादिविरहिता अनवरतमार्तध्यानादिपङ्ककलुषिताः। र सन्तो न किमप्यध्यात्मसुखं प्राप्नुवन्ति । न हि शक्तौ सत्यामपि चारित्रप्राणभूतसामाचार्यादिरूपजिनाज्ञापालनसे प्रमादवतामध्यात्मसुखसंभवः, अन्यथा तादृग्जिनाज्ञानां नैरर्थक्यं स्यात् ।
किञ्च महाभयङ्करघोरदुःखसंपूरिते चातुर्गतिके संसारसमुद्रे निमज्जतां भव्यजीवानां मोक्षतटप्राप्त्यै । से सर्वविरतिचारित्रमेव शरणम् । तच्च चारित्रं महापोतकल्पमपि स्वानुकूलपवनं विना न मोक्षतटं भव्यजीवान् । प्रापयति । अनुकूलपवनश्चात्र दशविधचक्रवालसामाचारीति कृत्वा चारित्रपोतं समाश्रयद्भिर्मुमुक्षुभिरवश्यं दशविधचक्रवालसामाचारीसमाचरणे महान् यत्नः कार्यः । स च यत्नः सामाचारीपरिज्ञानं विना न संभवतीति भद्रबाहुस्वामि-हरिभद्रसूरिभिरावश्यकनियुक्तिपञ्चाशकादिग्रन्थेषु सा प्रतिपादिता । साऽपि दुष्षमकालप्रभावतो हीयमानप्रज्ञानां भव्यजनानां दुर्बोधाऽभवदिति कृत्वा महोपाध्याययशोविजयैस्सामाचारीप्रकरणमकारि । तस्मिंश्च । विस्तरतः सामाचारी निरुपिता । किन्तु तदपि सामाचारीप्रकरणमधुना प्रायोऽतीवमन्दप्रज्ञावद्भिस्साधुभिर्दुबोधं । सञ्जातमिति साम्प्रतकालीनश्रमणश्रमणीसमुदायं भविष्यत्कालीनश्रमणश्रमणीसमुदायञ्च लक्ष्यीकृत्य तदुपकार मात्रबुद्धितो मयेयं दशविधचक्रवालसामाचारी निरूपयितुमारभ्यते । ___ तत्र मङ्गलादिप्रतिपादनार्थमियं प्रथमा कारिका।
जह मुणिसामायारिं संसेविय परमनिव्वुई पत्तो । तह वड्डमाणसामिय ! होमि कयत्थो तुह थुईए ॥१॥
हे वर्धमानस्वामिन् ! यथा भवान् मुनिसामाचारी संसेव्य परमनिर्वृतिं मोक्षं प्राप्तः, तथा तेनैव प्रकारेण तव स्तुत्याऽहं कृतार्थो भवामीति गाथासंक्षेपार्थः ॥१॥
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १८८ RECRUITERATIOESIGIRRIGATERRIERSITIERRIGHEREIGERROROUSERESERESERSE85850888