Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
a mma
ATREAR 2018IR सामाधारी | तथा "मदुपधिप्रतिलेखनं मया स्वयमेव कर्तव्यम् । यद्यन्यः करोति, तदा मया द्वितीयदिने उपवास कर्तव्य" इति केनचित्साधुनाऽभिग्रहो गृहीतोऽस्ति । अन्यस्तु साधुस्तमभिग्रहमजानन्तमपृष्ट्वैव। तदुपधिप्रतिलेखनं करोति, तदा तस्याभिग्रहस्य भङ्गो भवेत् । द्वितीयदिने च तेनोपवासः कर्तव्यः स्यादिति तस्य। संक्लेशोऽपि भवेत् ।
एवमन्यानपि दोषान्संभाव्य परस्यानुज्ञामिच्छाकारेण गृहीत्वैव तस्य कार्यं करणीयं, नान्यथा । ___ तथा परस्य वस्त्रप्रतिलेखन-वस्त्रप्रक्षालन-वस्त्रसीवनादीनि कार्याणि भक्तिभावेन कर्तुमिच्छताऽपि प्रथम 1 गुरोरनुज्ञा ग्रहीतव्या । यतः कदाचित्तत्कार्यकरणेऽन्ये दोषा संभवेयुः, गीतार्थगुरुस्तु तान्दोषान्जानाति, ततश्च यदि। 1 गुरुरनुज्ञां न दद्यात् तदा न परकार्यं करणीयम्, यद्यनुज्ञां दद्यात्तदा तु करणीयम् । किं बहुना "श्वासोच्छ्वासादिकं प्रतिक्षणसंभवि प्रतिक्षणं गुरुं प्रष्टुमशक्यं कार्यं मुक्त्वा स्थण्डिलगमनादि सर्वमपि कार्यं गुरुमापृच्छ्यैव
कर्तव्यम्" इति जिनशासनरहस्यम् । 2 तथैकः साधुर्वस्त्रप्रक्षालनकाले श्रान्तः सन् शेषकार्यसमाप्त्यर्थं द्वितीयं साधु प्रतीच्छाकारप्रयोगं करोति ।।
दूरस्थस्तृतीयः साधुस्तत्सर्वं पश्यति । तस्य च वैयावृत्यकरणभावो जातः, स च तत्र गत्वा प्रथमं साधुं कथयेत्। यदुत "यदि भवाननुज्ञां ददाति, तदाहमिच्छया भवत्कार्यं करोमि" इति । व अत्र च प्रतिपादितावसरद्वये साधुः स्वयमेव निर्जरार्थमिच्छाकारं करोति, रत्नाधिकैर्दीयमानकार्यावसरे तु 8 र स्वयमेव निर्जरार्थं कार्यं स्वीकृतं नास्ति, किन्तु स्वयमेव समापतितं कार्यं निर्जराप्राप्तिवैयावृत्यादिप्राप्त्यर्थं तेन । साधुना क्रियत इति विशेषः ।।
अत्र यदा निर्जरार्थी साधुः स्वयमेव कार्यकरणायोद्यतो भवति, तदर्थश्च साधोरनुज्ञां याचते, तदापि तेन साधुना न यथा तथैव स्वकार्यं तस्मै दातव्यम् । किन्तु तेनापि निर्जरार्थिनं साधुं प्रति पुनरिच्छाकारप्रयोगः कर्तव्यः यथा → यद्यपि त्वमात्मनैव मत्कार्यं कर्तुं समुत्थितोऽसि, तथाप्यहं पृच्छामि, कि भवान्स्वेच्छयैवैतत्कार्यं करोषि? यदि वा कस्यचिद्बलात्कारेण + इत्यादि। । ननु यदा रत्नाधिक: कस्मैचित्स्वकार्यं समर्पयति, तदा तत्पीडापरिहारायेच्छाकारप्रयोगो युक्तः, किन्तु यदा क्षुल्लकसाधुः स्वयमेवागत्यातीव हर्षपूर्वकं कार्यकरणानुज्ञां याचते, तदा तु तस्य पीडालेशोऽपि न संभवतीति कथं तदा रत्नाधिकेनेच्छाकारप्रयोगः क्रियमाणो युक्तः स्यात् ? निष्फलत्वात्तस्येति चेत् शिष्य ! यद्यप्यत्र रत्नाधिकेन क्रियमाण इच्छाकारप्रयोगः परपीडापरिहाराय न भवति, परपीडाया एवाभावात् । तथापि स प्रयोगः सम्प्रदायपरिपालनार्थं भविष्यति । सम्प्रदायपरिपालनञ्च महनिर्जराकारणमिति प्रतिपादितमेव । इत्थञ्च परपीडापरिहाराभिलाषी साधु त्रेच्छाकारप्रयोगस्याधिकारी, किन्तु जिनाज्ञापालनजन्याया विशेषनिर्जराया अभिलाषुक एवात्रेच्छाकारप्रयोगस्याधिकारी । परपीडापरिहाराभिलाषस्तु गौण एव । स भवतु, न वा भवतु । निर्जराविशेषाभिलाषुकाणां सर्वेषामिच्छाकारप्रयोगस्याधिकारो भवति, तत्तदवसरे च तेन तेषां निर्जरा भवतीति निष्कर्षः । ।
ननु “परस्मै स्वकार्यदाने इच्छाकारप्रयोगः कर्तव्यः" इति नियमः किं सर्वान्साधून्समाश्रित्य ? यद्वा गुरुं ।
EEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १८० ShorseSTERESERESIDESIDERESTSELETTERRORananesamaaEEEEEEEEEEEursCEB

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286