________________
GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SOURISTRAILERIORTERRIERRITARIUM तयार सामायारी मिच्छत्तं ॥ इति ॥३३॥
चन्द्र. - ननु अत्र किमन्यापायभणनेन ? जिनवचने तथाकारकरणे, मिथ्यात्वमेव महादोषः भविष्यति र ततश्च स एव प्रतिपादयितव्य इत्यत आह प्रमादेनाकरणे="शास्त्रानुसारिणि वचने अविकल्पेन तथाकारः
कर्तव्यः" इत्यादि ज्ञानस्याभावेन, आलस्येन, निद्रालुतया, विकथाव्याकुलत्वेन वा तथाकाराकरणे तदभावात्मिथ्यात्वाभावात् । न हि आलस्यादिमात्रेण सम्यक्त्वमपगच्छति । किन्तु जिनवचनेऽश्रद्धानात्सम्यक्त्वं अपगच्छति । प्रकृते तु जिनवचनेऽश्रद्धानं नास्तीति न मिथ्यात्वमिति ।
ननु प्रमादेनाकरणे मा भूत् मिथ्यात्वं, किन्तु कदाग्रहेण तथाकाराकरणे तु मिथ्यात्वं भवत्येवेत्यत आह अभिनिवेशेन="अनेन वक्त्रा प्रतिपादितं वचनं सम्यगेव" इति जानानोऽपि कदाग्रहात् तत्र श्रद्धानाकरणेन तथाकाराकरणे पुनः इष्टापत्तिरेव मिथ्यात्वं भवतीति एतदिष्टमेवास्माकं । अत्रार्थे सम्मतिमाह तदिदमाह 8 इत्यादि । पंचाशकगाथार्थस्त्वयम् संविग्नः संविग्नपाक्षिकश्च दुर्भाषितं उत्सूत्रप्ररूपणं कटुविपाकं दुर्गतिजनकं जानन् अनुपदेशं मिथ्योपदेशं न ददाति, किन्तु शास्त्रानुसारि एव वदति । यतः एवं तस्य वचनं सत्यमेव भवति, ततः तस्मिन्वचने अतथाकार: मिथ्यात्वं भवतीति ।
मिष्टान्नविकृत्यादिषु आसक्तिमान् मुनिः 'विकृतिभोजी पापसाधुः' इत्येतस्मिन् वचने श्रद्धानं न करोति, किन्तु "विपरीतकालक्षेत्रादिकारणवशात् अद्य साधुभिः विकृतयः भक्ष्यन्ते, न तु तावन्मात्रेण ते पापसाधवः" से इत्यादिना आत्मानं रक्षति । एवं विजातीयपरिचयतत्परो मुनिः "स्त्रीसंसर्गः मोक्षार्थिनः साधोः तालपुटं क विषमस्ति" इत्यादि न श्रद्धते । किन्तु "स्त्रीषु उपकारकरणाय एकान्तेऽपि ताभ्यः उपदेशो दातव्य एव । न हि तत्र कश्चिद्दोषः" इति वदति । एवं अत्र बहवो दृष्टान्ताः संभवन्ति । ते तु स्वयमेव विभावनीयाः । किं बहुना, सततं आत्मनिरीक्षणं करणीयम्, यदुत "किमहमपि कस्मिंश्चित् पदार्थे कदाग्रहकलुषितमानसः सन् जिनवचने विपरीतश्रद्धावान् नास्मि?" इति । अतीव गूढा खलु मोहराजस्य समरपद्धतिः, न खलु तत्रानवरतं
अप्रमत्ततां विना विजेतुं ब्रह्माऽपि अलमिति ॥३३॥ 8 શિષ્ય : આનો અર્થ તો એ જ ને કે આવા ગુરુના વચનોમાં તથાકાર ન કરે તો એ જિનવચનમાં જ તથાકાર આ ન કરનારો છે. તો પછી મિથ્યાત્વ જ લાગે ને ?
ગુરુઃ ના. આ રીતે જિનવચનમાં તથાકાર ન કરતો હોવા છતાં પણ મિથ્યાત્વ જ લાગે એવો નિયમ નહિ. છે જો પ્રમાદને લીધે તથાકાર ન કરે તો એમાં અતિચાર ચોક્કસ લાગે પણ મિથ્યાત્વ ન લાગે. પણ જો કદાગ્રહથી છે તથાકાર ન કરે તો પછી મિથ્યાત્વ લાગવાની વાતમાં અમને ઇષ્ટાપત્તિ જ છે.
પંચાશકમાં કહ્યું જ છે કે > સંવિગ્નપાક્ષિક સાધુ “દુર્વચનને કવિપાકવાળું જાણતો હોવાથી 8 અનુપદેશ=આગમવિરુદ્ધ ઉપદેશ ન આપે. પણ જિનવચન જ બોલે. એટલે જ તેને વિશે અતથાકાર એ મિથ્યાત્વ छ." -133॥
__ यशो. - ननु कोऽयं विभागः ? यत्संविग्नगीतार्थस्य युक्तिक्षमेऽयुक्तिक्षमे वा को तथाकार: कार्यः, इतरस्य तु युक्तिक्षम एव, यतो अगीतार्थसंविग्नोऽपि जिनप्रवचनमेव
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SEEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૪૪ SEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE