________________
. આવસહિ સામાચારી एवं आवश्यकी - नैषेधिकीपदे समानार्थे अपि नैकत्र वक्तुं युज्यते । किन्तु गमनकाले आवश्यकी, आगमनकाले च नैधिकीति ।
આ જ અભિપ્રાયથી શ્રીમલયગિરિજી મહારાજે કહ્યું છે કે “પ્રશ્ન : જો બે ય શબ્દો સમાનાર્થી છે તો પછી બે ય નો જુદો જુદો ઉપન્યાસ=કથન શા માટે ? ઉત્તર : આવહિ ગમન ક્રિયા માટે છે. નિસીહિ સ્થિર રહેવા માટે છે. એટલે બેયનો ઉપન્યાસ જુદો કર્યો છે.”
यशो.
यत्त्वावश्यकीनैषेधिक्योर्नैकार्थता,
एवं वा व्याख्या 'जो आवस्सयम्मि जुत्तो सो णिसिद्धो, जो पुण णिसिद्धप्पा सो आवस्सए जुत्तो वा ण वा, जतो समितो णियमा गुत्तो, गुत्तो समियत्तणंमि भयणिज्जो इति ← ' इत्यावश्यकचूर्ण्यक्तेरेकपदव्यभिचारेण वृक्षशिंशपापदयोरिव तयोर्नानार्थत्वादिति ।
-
चन्द्र. – “आवश्यकीनैषेधिक्योः एकार्थता नास्ति" इति अभिप्रायवानाह कश्चित् आह आवश्यकीनैषेधिक्योः नैकार्थता इत्यादि । ननु प्रतिपादितमेवाधुना, द्वे अपि पदे एकार्थे एव स्तः । किं बधिरोऽसि त्वं । यन्न श्रुणोषि इत्यतः पूर्वपक्ष: चूर्णिपाठद्वारेणैव तयोः भिन्नार्थत्वं स्थापयितुं पाठं दर्शयति "एवं वा व्याख्या" इत्यादिना । चूर्णिपाठस्यार्थस्त्वयम् → एका व्याख्या कृता । एवं वा द्वितीया व्याख्या संभवति । यः आवश्यकक्रियायां युक्तः, स नैषेधिकीक्रियायां युक्त एव । यः पुनः निषिद्धात्मा=नैषेधिकीक्रियावान् । स आवश्यकक्रियायां युक्तो भवति, अयुक्तो वा भवति । यतः समितः नियमेन गुप्तः । गुप्तश्च समितत्वे भजनीयः इति ।
तद्भावार्थस्त्वयम् → गुप्तिस्तावद् द्विविधा | शुभयोगेषु प्रवृत्तिरूपा, सर्वथा निवृत्तिरूपा वा। समितिस्तु शुभयोगेषु प्रवृत्तिरूपैव । आवश्यकीसामाचारी च शुभयोगेषु प्रवृत्तिरूपा । ततः आवश्यकीसामाचार्यां वर्तमानो मुनिः समितः गुप्तश्चापि भवति । नैषेधिकीसामाचारी तु सर्वथा निवृत्तिरूपा । ततः तस्यां वर्तमानो मुनिः केवलं गुप्त एव । न तु समितः । एवं यथा समिति - गुप्त्योः भिन्नार्थता । तथैव आवश्यकी - नैषेधिक्योः भिन्नार्थतैव । आवश्यकचूर्ण्यक्तेः कः = आवश्यकचूर्णिवचनात् एकपदव्यभिचारेण = "यो यः शिशपा स स वृक्षः । यः यः वृक्षः स तु कदाचित्शिंशपा भवति, कदाचित्तु अन्यः" इत्येवंरूपः यः एकपदव्यभिचारः, समव्याप्यव्यापकाभावरूप:, तेन । तयोर्नानार्थत्वात् = यो यः आवश्यकसामाचारीमान् स स नैषेधिकीमान् । यस्तु नैषेधिकीमान् स आवश्यकीमान् कदाचिद् भवति, कदाचित्तु न भवतीति । आवश्यकीकरणकाले स परमार्थतो नैषेधिकीमानपि भवति । किन्तु नैषेधिकी करणकाले स आवश्यकीमान् न भवतीति भावः । एवं च यथा वृक्षशिंशपापदे एकपदव्यभिचारेण भिन्नार्थके । तथैव नैषधिक्यावश्यकीपदे एकपदव्यभिचारेण भिन्नार्थक एवेति पूर्वपक्ष: ।
શિષ્ય : ખરેખર તો આવસહિ-નિસીહિ શબ્દ સમાનાર્થી છે જ નહિ. આ વાતને સાબિત કરતો આવશ્યકચૂર્ણિનો પાઠ પણ છે. તે આ પ્રમાણે છે → અથવા તો આ પ્રમાણે વ્યાખ્યા કરવી કે “જે સાધુ આવસહિમાં જોડાયેલો હોય તે હંમેશા નિસીહિવાળો હોય છે. પણ જે નિષિદ્ધાત્મા હોય એટલે કે નિસીહિસામાચારી વાળો હોય તે આવસહિવાળો હોય પણ ખરો કે ન પણ હોય.” કેમકે જે સમિતિવાળો હોય
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૬૮