Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 197
________________ SREERam I IIIIIIIIIII [UISIR सामाचारी महामहोपाध्यायश्री यशोविजयविरचित सामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी EssttaemarEEEEEEEEEEEEERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR888888883EERGREE एँ नमः से श्रीमते वीरनाथाय, सनाथायाद्भुतश्रिया । महानन्दसरोराजमरालायार्हते नमः ॥१॥ कृतापराधेऽपि जने, कृपामन्थरतारयोः । इषद्बाष्पार्द्रयोर्भद्रं श्रीवीरजिननेत्रयोः ॥२॥ यथा हि शोभनरूपलावण्यसंस्थानबलादिमन्तं बहुमूल्यालङ्कारसमलङ्कृतं कस्यचित् महारोगिणो देहं दृष्ट्वा । । तच्छोभा-समाकृष्टहृदया अन्ये जनाः परितोषं प्रानुवन्ति । स तु महारोगी अन्तर्गतगूढरोगजन्यमहावेदनाव्याकुलः। सन् न किमपि स्वस्यैव शोभनदेहस्य बहुमूल्याभरणालंकृतस्य सुखं प्राप्नोति, एवमेव प्रमादसमन्वितस्वाध्यायघोरतपोऽनुष्ठान-बहुजीवप्रबोधकव्याख्यानमहामन्त्रजपादिभूषणभूषितानां दशविधचक्रवालसामाचारीपालनविषयकप्रमादादिरोगसमन्वितानां निर्ग्रन्थानां बाह्यशोभादिकं दृष्ट्वा प्रमुदिता सन्तो बहवो जनाः सम्यग्दर्शनादिकं प्राप्नुवन्त्यपि, किन्तु चारित्रकल्पद्रुममूलीभूतानां दशविधचक्रवालसामाचार्यादिरूपजिनाज्ञानां व पालने मन्दा निरपेक्षाः प्रमादिनो निर्ग्रन्था अत एव शुभपरिणामादिविरहिता अनवरतमार्तध्यानादिपङ्ककलुषिताः। र सन्तो न किमप्यध्यात्मसुखं प्राप्नुवन्ति । न हि शक्तौ सत्यामपि चारित्रप्राणभूतसामाचार्यादिरूपजिनाज्ञापालनसे प्रमादवतामध्यात्मसुखसंभवः, अन्यथा तादृग्जिनाज्ञानां नैरर्थक्यं स्यात् । किञ्च महाभयङ्करघोरदुःखसंपूरिते चातुर्गतिके संसारसमुद्रे निमज्जतां भव्यजीवानां मोक्षतटप्राप्त्यै । से सर्वविरतिचारित्रमेव शरणम् । तच्च चारित्रं महापोतकल्पमपि स्वानुकूलपवनं विना न मोक्षतटं भव्यजीवान् । प्रापयति । अनुकूलपवनश्चात्र दशविधचक्रवालसामाचारीति कृत्वा चारित्रपोतं समाश्रयद्भिर्मुमुक्षुभिरवश्यं दशविधचक्रवालसामाचारीसमाचरणे महान् यत्नः कार्यः । स च यत्नः सामाचारीपरिज्ञानं विना न संभवतीति भद्रबाहुस्वामि-हरिभद्रसूरिभिरावश्यकनियुक्तिपञ्चाशकादिग्रन्थेषु सा प्रतिपादिता । साऽपि दुष्षमकालप्रभावतो हीयमानप्रज्ञानां भव्यजनानां दुर्बोधाऽभवदिति कृत्वा महोपाध्याययशोविजयैस्सामाचारीप्रकरणमकारि । तस्मिंश्च । विस्तरतः सामाचारी निरुपिता । किन्तु तदपि सामाचारीप्रकरणमधुना प्रायोऽतीवमन्दप्रज्ञावद्भिस्साधुभिर्दुबोधं । सञ्जातमिति साम्प्रतकालीनश्रमणश्रमणीसमुदायं भविष्यत्कालीनश्रमणश्रमणीसमुदायञ्च लक्ष्यीकृत्य तदुपकार मात्रबुद्धितो मयेयं दशविधचक्रवालसामाचारी निरूपयितुमारभ्यते । ___ तत्र मङ्गलादिप्रतिपादनार्थमियं प्रथमा कारिका। जह मुणिसामायारिं संसेविय परमनिव्वुई पत्तो । तह वड्डमाणसामिय ! होमि कयत्थो तुह थुईए ॥१॥ हे वर्धमानस्वामिन् ! यथा भवान् मुनिसामाचारी संसेव्य परमनिर्वृतिं मोक्षं प्राप्तः, तथा तेनैव प्रकारेण तव स्तुत्याऽहं कृतार्थो भवामीति गाथासंक्षेपार्थः ॥१॥ महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १८८ RECRUITERATIOESIGIRRIGATERRIERSITIERRIGHEREIGERROROUSERESERESERSE85850888

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286