________________
(“पाप-अकरणं फलान्तरस्यापि जनकं जिनैः विहितत्वात् चारित्रवत् ")
यशो. आह चूर्णिकारः - "स्यान्मतिरेवम्-पडिक्कमणवत्तिया गुणा ण हवति त्ति । भन्नति-जदि तं चेव ण करेइ पए पडिकंतो" इति ।
-
મિચ્છાકાર સામાચારી
चन्द्र. - चूर्णिगाथार्थस्त्वयम् । प्रतिक्रमणप्रत्ययाः - प्रतिक्रमणजन्याः गुणाः न भविष्यन्ति पापाकरणे, भण्यते=उत्तरं दीयते । यदि पापमेव न कुर्यात् तर्हि प्रथममेव प्रतिक्रमणं कृतं भवति । ततश्च तत्र प्रतिक्रमणजन्या गुणापि भवन्तीति भावः ।
ચૂર્ણિકારે આ વાત કરી જ છે કે → પ્રશ્ન ઃ જો પાપ જ ન કરીએ તો પ્રતિક્રમણ પણ કરવાનું ન રહે અને તો પછી પ્રતિક્રમણથી થનારા ગુણોની પ્રાપ્તિ નહિ થાય ?
ઉત્તર : જો પાપ જ ન કરે તો એ ઉત્સર્ગમાર્ગે પ્રતિક્રમણ કરનારો બને. ← (અર્થાત્ એ પાપ-અકરણ પ્રતિક્રમણ જ છે. એટલે પ્રતિક્રમણના લાભો એનાથી પણ મળવાના જ.)
यशो. उपेत्यकरणे=सकृदपि ज्ञात्वा करणे 'असकृत्' पौनःपुन्येन करणे च प्रतिक्रमणं न भवति ।
-
चन्द्र. सकृदपि ज्ञात्वा करणे = यस्य पापस्य मिथ्यादुष्कृतं दत्तं तदेव पापं एकवारमपि पुनः उपयोगपूर्वकं यदि करोति तर्हि पौनःपुन्येन = अनेकवारं करणे = पापकरणे प्रतिक्रमणं न भवति प्राग्दत्तं मिथ्यादुष्कृतदानं सम्यग् न गण्यते । अत्र यदि कश्चिदाह 'अहं उपयोगपूर्वकं पापं न करोमि, किन्तु अनाभोगादिनैव मया अनेकवारं पापं क्रियते । ततश्च उपयोगपूर्वकं पापाकरणात् मत्प्रतिक्रमणं सम्यगेव ' इति, ततः तद्भ्रमनिरासार्थमेवेदमुक्तं पौनःपुन्येन इत्यादि । यो हि अनेकवारं पापं करोति, तस्य तत्पापं उपयोगपूर्वकं एव भवति । नहि अनेकवारं अनुपयोगपूर्वकं पापं संभवतीति ।
આમ ઉત્સર્ગમાર્ગ બતાવીને હવે ઉન્માર્ગ બતાવે છે.
એકવાર પણ જાણી-જોઈને પાપ કરે અને વારંવાર પાપ કરે તો એનું પ્રતિક્રમણ=મિથ્યાકાર પ્રયોગ એ પ્રતિક્રમણ ન બને. અર્થાત્ એ સાચી સામાચારી ન ગણાય.
यशो. - एवं च यथावत्प्रयतमानस्यैवानाभाोगात्पुनरासेक्ने पापान्तराचरणे च पुनः पुनः प्रतिक्रमण - मपवादतोऽपि व्यवस्थितं,
चन्द्र. - निष्कर्षमाह एवं च = यतः सकृदपि ज्ञात्वा पापकरणे, अनेकशः वा पापकरणे प्रतिक्रमणं प्रतिक्रमणमेव न भवति, ततः यथावत्प्रयतमानस्यैव यस्य पापस्य मिथ्यादुष्कृतं दत्तं, तत्पापं पुनः यथा न भवेत् पापान्तरमपि च यथा न भवेत्, तथा शास्त्रविधिना तीव्रं प्रयत्नं कुर्वाणस्यैव अनाभोगात् पुनरासेवने विस्मरणानुपयोगसहसात्कारादिना प्राक्प्रतिक्रान्तस्यापि पापस्य पुनः आसेवने सत्यपि पापान्तराचरणे च यत्पापं अद्य यावत् न संयमजीवनेऽभूत्, अत एव न तस्य पापस्य मिथ्यादुष्कृतं दत्तं तादृशस्य पापस्य आचरणे
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – चन्द्रशेजरीया टीका + વિવેચન સહિત ૭ ૧૨૦