________________
( ४२६ ) "इत्यादि से ये भी ज्ञान होता है कि ज्ञानमार्गीय और भक्तिमार्गीय यदि ज्ञान रहित भी हों तो उन्हे भगवत् प्राप्ति हो सकती है, ये वाक्य साधनत्व निरूपक श्रुति से विरुद्ध हैं। कहीं कहीं ज्ञान को मुक्ति के साधन के रूप में कहा गया है कहीं भक्ति को कहा गया है, कहीं दोनों को नहीं कहा गया अतः किसी एक साधन के निश्चय न होने से, मुक्ति की साधना में मुमुक्षु की प्रवृत्ति होना कठिन है।
इति प्राप्ते आह-गतेरर्थवत्वमित्यादि । गतेानस्य अर्थवत्वं फलजनकत्वमुभयथा मर्यादा पुष्टि भेदेनेत्यर्थः । अत्रायमाशयः “एष उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति" इत्यादि श्रुतिभ्यो भगवान् सृष्टि पूर्वकाल एवैतस्मै जीवायतत्कर्म कारयित्वैतत्फलं दास्य इति विचारतवानिति तथैव भवति । तत्रोक्तरीत्या मुक्तिमाधनानुगमे हेतुरवश्यं वाच्यः । एवं सति कृतिसाध्यं साधनं ज्ञानभक्तिरूपं शास्त्रेण बोध्यते । ताभ्यां विहिताभ्यां मुक्तिः मर्यादा । तद्रहितानामपि स्वरूप बलेन स्व प्रापणं पुष्टिरुच्यते । तथा च यं जीवं यस्मिन् मार्गे अंगीकृतवांस्तं जीवं तत्र प्रवर्त्तयित्वा तत्फलं ददातीति सर्व सुस्थम् अतपुष्टिमार्गे अंगीकृतस्य ज्ञानादिनरपेक्ष्यं मर्मादायामंगीकृतस्य तदपेक्षित्वं युक्तमेवेति भावः । अत्र साधकत्वेन विपक्षे बाधकमाह । अन्यथा हि विरोध इति । अन्यथा मर्यादा पुष्टि भेदेन व्यवस्थाया अकथने विरोधात् हेतोस्तथेत्यर्थः । विरोधस्तु पूर्वपक्ष ग्रन्थ उपपादितः । एतेनैव, ननु श्रवणादिरूपा प्रेम रूपा च भक्तिरविशेषेण पापक्षय एवोदेत्युत कश्चिद् विशेपोऽस्ति ? तत्राधुनिकानामपि भक्तानां दुःखदर्शनाच्छवणादेः पापनाशकत्व श्रवणाच्चाविशेष पक्षस्त्वंसंगतः । अथ श्रवणादिरूपा, पापे सत्यपि भवति । प्रेम रूपातु तन्नाश एवेति विशेषो वाच्यः । सोऽपि प्रेमवतामपि अक्रूरादीनां मणिप्रसंगे भगवता समं कापट्य कृतिश्रवणान्न साधीयानित्यपि शंका निरस्ता वेदितव्या । तथाहि मर्यादा पुष्टिभेदेनांगीकारे वैलक्षण्यादाद्यायामंगीकृतानां मुमुक्षयैव श्रवणादी प्रवृत्तिस्तदातृत्वेनैव भगवति प्रेमापि, न तु निरुपधिः । कदाचित् वस्तु स्वभावेन मुक्तीच्छानिवृत्तावपि तद्भक्तेः साधनमार्गीयत्वात् "अनिच्छतो मे गतिमण्वी प्रयंक्त" इति वाक्यादन्ते मुक्तिरेव भवित्री। अस्मिन् मार्गे श्रवणादिभिः पापक्षये प्रेमोत्पत्तिस्ततो मुक्तिः।।
उक्त प्राप्त मत पर-' गते रर्थवत्वम्" इत्यादि सूत्र प्रस्तुत करते हैं । गति अर्थात् ज्ञान की फलजनकता पुष्टि और मर्यादाभेद से दो प्रकार की