________________
( ५५३ ) अपि च "एनं विदुः" इति श्रुतेः सति ज्ञाने हि सा । “यतो वाचः",. "अगृह्मो ननि गृह्यते" इत्यादि श्रुतिभ्यो ब्रह्मज्ञानासंभवात् । इत एव भक्तिरपि प्रत्युक्ता वेदितव्या। ज्ञाना विषयेस्नेहासंभवात् । किं च-"सर्वस्यवशो सवस्येशानः" इत्यादि श्र तिभ्यो, “मस्यावतार कर्माणि गायन्ति ह्यस्मदादय: "न यं विदन्ति तत्त्वेन" इयादि स्मृतिभ्यश्च का प्रत्याशा जीवस्यातिहीनस्य' तत्प्राप्तौ । अतएवोपदेशाऽसंभवोऽपीति प्राप्ते प्रत्याह-आत्मेत्यादिना, तु शब्दः पूर्वपक्ष निरासकः, अत्रायमाशयः सत्यमुक्त भवता, तत्रोच्यते, यथा अगृह्मत्वातिमहत्त्वादिधर्मा भगवति सन्ति तथा सर्वात्मत्वमपि । “य आत्मनितिष्ठन्" इत्यादि श्रुतिष्वात्मत्वेनैवोक्तः । सर्वधर्माश्रयत्वेऽपि यदा यधर्म पुरस्कृत्य लीलां करोति तत्कार्यमेव तदा संपद्यते । हितकारित्वस्वभ वित्वातस्य । एवं सति यस्मिन् पुरुषे यदा आत्मत्वेन लीलां करोति तदा स्वप्रप्त्य-- नुकूल प्रयत्नवन्तं विधायात्मानं प्रापयति । ननूक्त दुरतिक्रमः कर्मस्वभाव इति, नैष दोषः । नहि अन्नरसपाकाय जग्धभौषधमपि गौरवाय भवति, तेन न तन्निवृत्तिर्वा । व्यापादनकः स्वभावमपि विशमाशीविषं तदपगमपटुतरनिगमसंगमो नापगमयति वा । तथाभगक्दर्पितं तदर्थं च कृतं कर्म न कर्मनाशाय भवतीति न वक्तु शक्यम् "कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा" इति वाक्यात् । अग्राह्यत्वात्प्राह्यत्वविरोधापहारस्तु जो सामर्थ्यश्वरेच्छाभ्यां पुरैव कृत इति नाधिकमत्र निरूप्यम् । इति शब्दो हेत्वर्थे । तथा च, भगवानात्मा भवति सर्वेषां जोवाना अतो हेतोरुक्तरीत्यातदनुग्रहेण तमुपगच्छन्ति । ज्ञानमार्गेऽङ्गीकृतास्तु साक्षात् प्रकटे पुरुषोत्तमे सति तद्भजनार्थमुपसमीपं गच्छन्तीत्यर्थः । एवं श्लेषोक्तिरियमिति ज्ञायते । सम्प्रदायानुवृत्तिरपि भगवदिंगतेत्येतादृशाः स्वथं येन मार्गेण फलं प्राप्तास्ति मार्गमन्यामपि ग्राहयन्ति उपदेशरत्रोभयत्राप्यात्मत्वमेव हेतुरन्यथाऽत्मारामस्य सर्वनिरपेक्षस्यैवं करणासंभेवन मोक्षमार्गा प्रसिद्धिरेव स्यात् । तस्मात् सर्वथानावृत्तिरेव श्रत्यभिमतेतिज्ञेयम् ।
“य एनंविदुः" श्रुति ज्ञान से ही मुक्ति बतलाती है। “यतो वाचो' "अगृह्यो न गृह्यते' इत्यादि श्रुतियों से तो निश्चित होता है कि ज्ञान से ब्रह्मज्ञान की संभावना नहीं है । भक्ति से ही ब्रह्मज्ञान संभव है, यही समझना.. चाहिए । ब्रह्म, ज्ञान का विषय नहीं है, क्योंकि उसमें स्नेह का अभाव रहताः है। "सर्वस्यवशी सर्वस्येशानः'' इत्यादि श्रुति और “यस्यावतार कर्माणि" न यं विन्दतितत्त्वेन" इत्यादि स्मृति से तो अतिहीन जीव को उसकी प्राप्ति की आशा ही नहीं रह जाती । अतः उसके संबंध में कुछ भी उपदेश करना असंभव है।