________________
नोपदेशसाध्याऽतो नोपदिश्यते, किन्त्वनूद्यते । सात्वधिकारोत्कर्षात् स्वत एव भवतीति प्रतीकोपासनस्य न मुक्तिसाधनत्वमिति साधूक्तम्, एतदेवोक्तमनेन सूत्रण।
सर्वत्र ब्रह्मदृष्टि की बात प्रतीकात्मक नहीं है, अपितु सब कुछ वस्तुतः ब्रह्मात्मक ही है । यह बात उपदेश साध्य नहीं है, अतः उसका उपदेश न देकर केवल अनवाद मात्र किया गया है उसे इस प्रकार जानकर उपासना करने से वह मुक्ति स्वतः ही हो जाती है, क्योंकि जानकारी होने से अधिकार में उत्कर्ष होता है, यदि केवल प्रतीकमात्र मानकर ही उपासना की जाय तो उपासना में दिखावा मात्र होगा, तीव्रता प्रवणता नहीं हो सकती, अतः प्रतीकोपासना मुक्तिसाधन नहीं है, ये कथन ठीक ही है । यही बात इस सूत्र से कही गई है।
३ अधिकरण :
आदित्यादिमतयश्चांग उपपत्त: ।४।१।६।।
छांदोग्ये- 'अथहोवाच सत्ययज्ञं पौलुषि प्राचीन योग्यकं त्वमात्मानमुपास्सइत्यादित्यमेव भमवो राजनिति होवाचेति, अथहोवाचेन्द्रद्युम्नमि" त्युपक्रम्य "त्वं कमात्मानमुपास्स इति वायुमेव भगवो राजनितिहोवाचेति" एवमेवाग्ने प्रश्नभेदेन वक्तृभेदेनाकाशापप्रभतय आत्मत्वेन उपासनाविषयाउक्ताः । 'तत्रैवासौ वा आदित्यो देवमध्विति "उपक्रम्यान्ते पठ्यते" य एतमेवं विद्वानादित्यंब्रह्मत्युपास्ते' इति । अत्रेदं चिन्त्यते-अत्रप्रतीकोपासनत्वमस्ति, नवेति ? अस्तीति पूर्वः पक्षः । तथाहि-सर्व खल्विदं ब्रह्मति श्रुतौ सर्वमनूद्य' ब्रह्मत्वं तत्र बोध्यत इतिनक्वचिद् प्रतीकोपासनमस्तीति हि पूर्व निरूपितम् । तच्चोक्त श्रुतिभिः प्रत्येकं तत्वेनोपास्यत्वेनोक्त्या नोपपद्यते । ब्रह्मण: एकत्वादेकप्रकारकेणैवोपासनेन सर्वेषां फलसिद्धेः पृथक्पृथगुक्तौगौरवात् प्रयोजन विशेषाभावाच्च । तादृशाधिकाराभावात् पृथक् तदुक्तिरिति चेद् न, सर्वत्र सदा तद्भावनायां तथाऽनुभवस्यापि संभवात् । एवं सति वस्तुतः सर्वस्य ब्रह्मत्वं. नाभिमतं किन्तु यथाऽदित्यादीनां तत्तथातथा सर्वस्यापीति प्रतीकोपासनत्वमेव सर्वत्र । तेनैवफलमिति प्राप्ते प्रतिवद ति-आदित्यादौ या ब्रह्मत्वंमतय उच्यन्ते तास्तु साकारस्यैव ब्रह्मणो व्यापकत्वात् तस्य प्रत्येकमप्यंगमुपासितं फलदमित्येकैकांगविषयिण्यस्ता विधीयन्ते । उपपन्न चैतत् । नहि साकारव्यापक ब्रह्मणोऽङ्गान ब्रह्मातो न प्रतीकोपासना तत्र।