________________
प्रतिषेधादिति चेन्न शारीरात् ।४।२।१२ ॥
ननु "न पश्यो मृत्यु पश्यति न रोगं नोतदुःखम्" इत्यादि श्रु त्या दुःखप्रतिषेधस्तादृशे भक्ते क्रियत इति तस्य दुःखित्वं न वक्तु शक्यमित्याशंक्य प्रतिषेधति, नेति, कुतः ? शारीरात्, शरीरसंबंधिनो हेतोर्यद् दुःखं कर्मजनितमिति यावत् तस्यैव श्रुतौ प्रतिषेधानात्रानुपपत्तिरित्यर्थः । एतेन दुःखत्वेन कर्मजन्यत्वानुमानमपि निरस्तं वेदितव्यम् । लौकिक एव दु:खे तज्जन्यत्व नियमात् ।
"वह न मृत्यु देखता है, न रोग न दु:ख" इत्यादि श्रुति से तो भक्तों के ‘लिए दुःख का प्रतिषेध किया गया है, अतः भक्त के लिए दुःख प्राप्ति की बात 'नहीं कह सकते, इस संशय का प्रतिषेध करते हुए सूत्रकार कहते हैं कि उक्त दुःख सम्बन्धी चर्चा शरीर के सम्बन्ध में है, जो दुःख कम जन्य होते हैं, उन्हीं का प्रतिषेध श्र ति में किया गया है । इसी से कर्म जन्य होने की बात का भी प्रतिषेध हो जाता है । लौकिक दुःख में ही उसके होने की बात कही जाती है (अलौकिक दुःख होता नहीं है, वह तो सुख का ही नामान्तर है)।
स्पष्टो ो केषाम् ।४।२।१२।
एकेषां शाखिनां भगवत्स्वरूपलाभानन्तरं दुःखतन्निवर्तनलक्षणोऽर्थः स्पष्टः 'पठ्यते-तथाहि-"रसो व सः रसं ह्यवाऽयंलब्ध्वाऽनंदी भवति, को ह्य वा.न्यात् कः प्राण्यात् यदेष आकाश आनंदो न स्यात्, एष ह्यवानन्दयाति ।" अत्र रसात्मकभगवत्स्वरूपलाभे सत्यानंदवत्त्वमुक्त्वा तस्यैव जीवन हेतुत्वं परमानन्द हेतुत्वं चोच्यते । मरणहेतूपस्थित्यभावे जीवन हेतुत्वं न वदेत् । स रसस्तु संयोगविप्रयोगभावाभ्यामेव पूर्णोभवत्यनुभूतो नैकतरेण । तत्र विरहतापस्यात्युपमहित्वेन तदा प्राणास्थितिरपि न स्याद् यदि रसात्मको भगवान् हृदि न स्यादित्याशयेनाह, "को ो वान्यात्' इति । यद् यदि एष हृदि स्फुरद्रूप आकाशो भगवान्न स्यात् कस्तदान्यात, अन प्राणने को वा जीवयेन्न कोऽपि इत्यर्थः । तादृशस्य भगवत्स्वरूपातिरिक्तान्न जीवनमिति ज्ञापनाय सामान्यपदम् । ब्रह्मानन्दाधिकपूर्णानन्दविरहासन्नमरणनिवारणासामर्थ्यमतादृशस्योचितमेवेति ज्ञापनाय हिशब्दः। ताहशस्य जीवन संपादतं प्रभोरावश्यकमिति ज्ञापनाय एवकारः। तापात्मकस्याल्यानन्दात्मकत्वमेवेति ज्ञापनायानंदपदम् । तदा प्रलापगुणगानादयो ये भवन्तितेऽपि तद् धर्मा एव, नीलाम्बुदश्यामोऽतिक्लेशवशाद् हृदयादपगच्छत्विति भावेऽपि हृद्यान्नापसारयितु शक्य इति ज्ञापनाय चाकाशत्वमुक्तम् । तदतत्तरं प्रकटीभूय