________________
( ६१७ )
लिए यहाँ भी परम ब्रह्मपद प्रयोग किया गया है। इस ऋचा को व्याख्या आनन्दमयाधिकरण में कर चुके हैं इसलिए यहाँ नहीं की।
अप्रतीलम्बनान्नयतीति बादरायण उभयधादोषात्तत्क्रतुश्च ।४।३।१६।।
क्रममुक्तयाधिकारिणः प्रारब्धं भुक्त्वाऽमानवेन पुरुषेण प्रापिताः परमेव ब्रह्म प्राप्नुवन्तीतिसिद्धम् । तत्रेदं संदिह्यतेऽचिरादिलोकप्राप्तिा पासना विशेषफलम्, एवं सति अमानवः पुरुषस्तान् सर्वान ब्रह्मप्रापयत्युत कांश्चिदेवेति । किमत्रयुक्तम् । सर्वांनेवेति । यतोऽचिरादिमार्गगतानामन्ते ब्रह्मप्रापणार्थमेव स नियुक्तस्ततोऽन्यथाकरणे हेत्वभावात्तथैव स कर्त्तति प्राप्ते, उच्यतेश्रुतौ ब्रह्मत्वेनैव सर्वत्रोपासनाया उक्तत्वादुपास्येषु भगवविभूतिरूपत्वेन शुद्ध ब्रह्मरूपेष्वप्यतथात्वं ज्ञात्वा ध्रुतिब्रह्मत्वोपासनायाः फलसाधनत्वं वदति, नतूपास्ये ब्रह्मवामपीतिमन्वाना य उपासते ते प्रतीकालम्बना इत्युच्यन्ते । तथा च सत्यपि वेदविहितत्वेनोपासनायाः कृतत्वेन सफलत्वात् तत्फलत्वेनोपासकानामचिरादिलोक प्राप्तावपितानवानवः पुरुषोब्रह्म न प्रापयति, किन्तु शुद्ध ब्रह्मत्वं ज्ञात्वा य उपासते तानेव ब्रह्मप्रापयति इति बादरायण आचार्यों मन्यते । तत्र हेतुमाह-उभयथादोषादिति । वस्तुतो यद् ब्रह्मरूपंतत्राब्रह्मत्वनिश्चय उपासनार्थ च ब्रह्मत्वेन भावनमेवमुभयथा करणे दोषः संपद्यत इति तस्य न ब्रह्मप्राप्तावधिकारोऽस्तीतियुक्त तदनयनमित्यर्थः । तथा च श्रुतिः "असन्नेवसभवति, असद् ब्रह्मेति वेद चेदिति, योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते, किं तेन न कृतं पायं चोरेणात्मापहारिणा "इति । एवं ज्ञानमार्गीय व्यवस्थामुक्त्वाभक्तिमार्गीयस्यापि तामाह-तत्क्रतुश्चेति ।" सर्व मद्भक्तियोगेन "इति वाक्यान्न तस्योपासनापेक्षेति न प्रतीकादि संभावना तत्रकथंचिद् यदि वाच्छतीतिवाक्यादिच्छामात्रेण तद्भोगकरणानन्तरं प्राचीन भगवद्भजनलक्षणक्रतुश्च नीयते इत्यर्थः । वस्तुतस्तु भक्तस्य अमानवपुमपेक्षाभावात् स्वयमेव ब्रह्मलोकान् प्राप्नोति इतिज्ञापपाय अपमान्त उक्तः ।
क्रममुक्ति के अधिकारी प्रारब्धभोगकर अमानवपुरुष से ब्रह्म के निकटः पहुंचाए जाते हैं अतः वे परमब्रह्मको प्राप्त करते हैं । इस पर संदेह होता है कि अचिरादि लोक प्राप्ति तो उपासना विशेष का फल है, अतः अमानब पुरुष उन सभी को ब्रह्म तक ले जाता है अथवा किसी-किसी को ही ले जाता है। सही क्या है ? कह सकते हैं कि सभी को ले जाता है क्योंकि-अचिरादिमार्ग में गए हुए लोगों को अन्त में ब्रह्म प्राप्ति कराने के लिए ही वह नियुक्त है,