________________
( ५३६ ) भगवत् प्राप्ति में, शमदम आदि साधन सहज रूप से ही उस' भक्त में आ जाते हैं, उसके लिये कोई प्रयास अपेक्षित नहीं होता, और न इन वाक्यों की ही कोई अपेक्षा होती है । अतः पुष्टि मार्ग में पूर्व के साधनों को कोई प्रयोजन नहीं है, वे तो स्वयं ही आ जाते हैं उसमें तो तृतीय मानसिक साधम की ही विशेषता बतलाई गई है, वरण मात्र ही इस मार्ग का साधन है मर्यादा मार्ग में अन्य साधनों की अपेक्षा होती है ।
कृत्स्नभावात्त गृहणोपसंहारः ।३।४।४७।
ननु बहिस्स्तूभयथेत्यादिना भगवदीयस्य गृहत्याग आवश्यक इति निरू'पितम् । छांदोग्ये त्वाचार्यकुलादित्युपक्रम्य छांदोग्योपनिषदन्ते आचार्यकुलाद् वेदमधीत्य गुरोः कर्माति शेषेण अतिसमावृत्य कुटुम्बेशुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिण्ठाप्य अहिंसनसर्वाणिभूतान्नन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते, न च 'पुनरावर्तते न च पुनरावर्तते।"
इदं विषय बाक्यम् । "ब्रह्मलोकमभिसंपद्यते” इति गृहिणोपसंहार कृतः । ‘वाजसनेयि शाखायां च-"तद् हस्म वैतत्पूर्वे ब्राह्मणः अनूचाना विद्वांसः 'प्रजां न कामयन्ते' इत्युपकम्य "अथभिक्षाचर्य चरंति" इति पठ्यते । एवं सति विकल्पे संभबति उपसंहारस्यतात्पर्य ग्राहकत्वाद् गृहिण एव यथोक्तकर्मकर्तुः ब्रह्मसंपत्तिः, इति श्रुतेः तात्पर्यम् । त्यागोक्तिस्तु "ब्रह्मतादृशं यदर्थ सर्व त्यज्यते” इति स्तुतिपरेति प्राप्ते, गृहिणोपसंहारे हेतुत्वेन तात्पर्य माहकृत्स्नेति-त्यागेवाङमनसोरेव भगवति विनियोगोन सर्वेन्द्रियाणाम् गृहिणस्तु सर्वैः प्रकारैः यजनं भवति । परिजनश्च कृतार्थो भवति इति च भजने कृत्स्नता भवति इति तेनोपसंहारः कृतः । अतएव "आत्मनि सन्द्रियाणि संप्रतिष्ठाप्य" इति उच्च यते । अत्रात्मपदं भगवत्परमिति ज्ञेयम् । कर्ममार्गीयगहिव्यवच्छेदाय तु शब्दः । अत्रेदमाक्तम्-"भक्तिमार्गों बहुविधि" इति कपिलदेव वाक्यात् केचन भक्ताः स्वगृहेष्वेवः स्नेहेन भगवदाकारे विविधोपचारैः सेवां कुर्वन्तः तयव निवृत्त्या मुक्तिमपि तुच्छां मन्यन्ते । तदुक्त-"मधुद्विट् सेवानुरक्तमनसामभवोऽपि फल्गुः" इति । तेन भगवत् भजन एव तत्रापि पुष्टिमार्ग एव श्रुतेर्भर इति ज्ञायते । पूर्वमुत्कटभगवद् भाववतां तदर्थ त्यागं निरूप्य गृहिणोपसंहार तात्पर्य पश्चाद् यन्निरूपितवाँस्तेन तादृगभाववतव त्यागः कार्यः । तद् रहितेन तु गृहं एवोक्तरीत्या प्रभु भजन कार्यम् । तेनैव तल्लाभ