________________
(
४५७ )
नारदेनोक्तः सनत्कुमारः “पूर्वस्माद् पूर्वस्माद् भूयोवदेत्” इति पृष्टो, भूयः पदमधिकारार्थ, नामवाङ्मनः संकल्प चित्तध्यानविज्ञानवलानापस्तेजआकाशस्मराऽशाप्राणान् ब्रह्मत्वेनोपासना विषयत्वेनोक्त्वा प्राणोपासकस्यातिवादित्वं सत्यवादित्वेनोक्त्वा विजिज्ञासितव्यत्वेन सत्यविज्ञानमतिश्रद्धा निष्ठाकृतिसुखानि पूर्वपूर्वकारणत्वेनोत्तरोत्तराप्युक्त्वा सुख स्वरूप जिज्ञासायामाह “यो वै भूमातत्सुखम्" इति । भूम्नः स्वरूपजिज्ञासायामाह-“यत्रनान्यत् पश्यति नान्यच्छृणोति नान्यत् विजानाति स भूमा'' इति । एतेन सर्वात्मभावस्वरूपमेवोक्तं. भवति । तत्रविरहभावेऽतिगाढभावेन सर्वत्र तदेव स्फुरति इति, “स एवाधस्तात्' इत्यादिनोक्त्वा कदाचित् स्वस्मिन्नेव भगवत्त्वस्फूतिरपि भवति इत्यहंकारादेश इत्यादिना तामुक्त्वतेषां व्यभिचारिभावत्वेनानियतत्वं ज्ञापायितु पुनः सर्वत्र भगवत् स्फूत्तिमाह "अर्थात् आत्मदेश' इत्यादिना । ततः संयोगभावे सति पूर्वभावेन सर्वोपमदिना स्वप्राणादि सर्वतिरोधानेनाग्रिमलीलाऽनुपयोगित्वं न शंकनीयम् । ततः श्लोकप्तद्भावस्वरूपमुक्त्वंतस्य मूल कारणमाह-"आहार शुद्धौ” इत्यादिना । प्राणपोषको हि आहारस्तस्य सदोपत्वे तु न किंचिद् सिद्धयति । एवं सति भगवदतिरिक्तस्य स्वतोनिर्दोषत्वभावाद् भगवानेव चेत् प्राण पोषको भवेत्तदा सर्व संपद्यते । स च सर्वात्मभावे सत्यव भवति । स च तथा तद्वरणं विना न भवति । तच्चोक्त कार्यानुमेयम् इति. वरण लिंग सर्वात्मभावस्तस्यैव भूयस्त्वात् सर्वतोऽधिकत्वान् तत्वरणमेव सर्वतः कालादेर्बलीय इत्यर्थः । यल्लिगमेव सर्वतो अधिकं तस्य तथात्वे किं वाच्यम् इति कमुतिक न्यायोऽपि सूचितः । ज्ञानमार्गीय ज्ञानेन प्रतिबंधशंकायामाहतदपीति, उक्तमिति शेषः । अन्तराभूत ग्रामवत् स्वात्मन् इति सूत्रेण तच्चोपपादितमस्माभिः ।
पूर्व अधिकरण में सर्वात्मभावरूप मुख्य भक्ति के ही वरण की बात सिद्ध की गई है । वरण श्रुति में तो परमात्मा के वरण का महत्व कहा गया है । इस शंका पर उक्त बात को पुनः दृढ़ करने के लिए उस वरण के स्वरूप को. श्रुति से विवेचन करने के लिए नए अधिकरण का प्रारम्भ करते हुए शंका. समाधान करते हैं
संशय करते हैं कि--काल दृष्ट स्वभाव आदि प्रतिबन्धकों के रहते हुए वरण कार्यरूप सर्वात्मभाव जीव का संभव है या नहीं ? इस पर पूर्व पक्ष वालों का कथन है कि-हर जगह प्रतिबन्धक का अभाव होने पर कार्य सिद्धि