Book Title: Shatkhandagama Pustak 09
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati
View full book text
________________
१७०] छक्खंडागमे वेयणाखंड
[१, १, ४५. विकल्पः संग्रहप्रस्तारः नित्यः वाचकभेदेनाभिन्नः द्रव्यमित्त्युच्यते । द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्यार्थिकः । एष एव सदादिरविभागप्रतिच्छेदनपर्यन्तः संग्रहप्रस्तारः क्षणिकत्वेन विवक्षितः वाचकभेदेन च भेदमापन्नः विशेषप्रस्तारः पर्यायः। पर्यायः अर्थः प्रयोजनमस्येति पर्यायार्थिकः। तत्र योऽसौ द्रव्यार्थिकनयः स त्रिविधो नैगम-संग्रह-व्यवहारभेदेन । तत्र सत्तादिना यः सर्वस्य पर्याय-कलंकाभावन अद्वैतत्वमध्यवस्येति शुद्धद्रव्यार्थिकः स संग्रहः । अनोपयोगी गाहा
शब्दभेदसे अभिन्न होता हुआ द्रव्य कहा जाता है। द्रव्य ही है अर्थ अर्थात् प्रयोजन जिसका वह द्रव्याथिक नय है। सत्को आदि लेकर अविभागप्रतिच्छेद पर्यन्त यही संग्रहप्रस्तार क्षणिक रूपसे विवक्षित व शब्दभेदसे भेदको प्राप्त होता हुआ विशेषप्रस्तार या पर्याय है। पर्याय ही है अर्थ अर्थात् प्रयोजन जिसका वह पर्यायार्थिक नय है । उनमें जो वह द्रव्यार्थिक नय है वह नैगम, संग्रह और व्यवहारके भेदसे तीन प्रकार है। इनमें जो सत्ता आदिकी अपेक्षासे पर्याय रूप कलंकका अभाव होनेके कारण सबकी एकताको विषय करता है वह शुद्ध द्रव्यार्थिक संग्रह है । यहां उपयोगी गाथा
१ प्रतिषु 'द्रव्यार्थिकः पुरुषः' इति पाठः । ष. खं. पु. १, पृ. ८३. द्रव्यमस्तीति मतिरस्य द्रव्यभवनमेव नातोऽन्ये भावविकाराः नाप्यभावस्तव्यतिरेकेणानुपलव्धेरितिद्रव्यास्तिकः। xxx अथवा, द्रव्यमेवार्थोऽस्य न गुण-कर्मणी तदवस्थारूपादिति द्रव्यार्थिकः | xxx अथवा, अयते गम्यते निष्पाद्यत इत्यर्थः कार्यम्, द्रवति गच्छतीति द्रव्यं कारणम् । द्रव्यमेवार्थोऽस्य कारणमेव कार्य नार्थान्तरम् न च कार्य-कारणयोः कश्चिद् रूपभेदः तदु. भयमेकाकारमेव पर्यागुलिद्रव्यवदिति द्रव्याबिकः | xxx अथवा, अर्थनमर्थः प्रयोजनम्, द्रव्यमेवार्थोऽस्य प्रत्ययाभिधानानुप्रवृत्तिलिंगदर्शनस्य निहोतुमशक्यत्वादिति द्रव्यार्थिकः । त. रा. १,३३, १. एतद्रव्यमर्थः प्रयोजनमस्येति द्रव्यार्थिकः। तद्भावलक्षणसामान्येनाभिन्नं सादृश्यलक्षणसामान्येन भिन्नमभिन्नं च वस्त्वभ्युपगच्छन् द्रव्यार्थिक इति यावत् । जयध. १, पृ. २१६.
२ प्रतिषु ' -रविभागपरिच्छेदन ' इति पाठः। __ ३ ष. खं. पु. १, पृ. ८४. पर्याय एवास्तीति मतिरस्य जन्मादिभावविकारमात्रमेव भवनम्, न ततोऽन्यदद्रव्यमस्ति, तव्यतिरेकेणानुपलब्धेरिति पर्यायास्तिकः|xxx पर्याय एवार्थोऽस्य रूपाद्यत्क्षेपणादिलक्षणो न ततोऽन्यद् द्रव्यमिति पर्यायार्थिकः। xxx परि समन्तादायः पर्यायः, पर्याय एवार्थः कार्यमस्य न द्रव्यमतीतानागतयोविनष्टानुत्पन्नत्वेन व्यवहाराभावात् स एवैकः कार्य-कारणव्यपदेशभागिति पर्यायार्थिकः । xxx पर्यायोऽर्थः प्रयोजनमस्य वागविज्ञानव्यावृत्तिनिबन्धनव्यवहारप्रसिद्धेरिति पर्यायार्थिकः । त रा. १, ३३, १. परि भेदं ऋजुसूत्रवचनविच्छेद्रं एति गच्छतीति पर्यायः, स पर्यायः अर्थः प्रयोजनमस्येति पर्यायार्थिकः । सादृश्यलक्षणसामान्येन भिनमभिन्नं च द्रव्यार्थिकाशेषविषयं ऋजुसूत्रवचनविच्छेदेन पाटयन् पर्यायार्थिक इत्यवगन्तव्यः । जयध. १, पृ. २१७.
४ तत्र द्रव्यार्थिकनयस्त्रिविधः संग्रहो व्यवहारो नैगमश्चेति । तत्र शुद्धद्रव्यार्थिकः पर्यायकलंकरहितः बहुभेडः संग्रहः । जयध. १, पृ. २१९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org