________________
૨૦૨ ]
छक्खंडागमे वेयणाखंड
[ ४, १,४५.
विषयानतिशय्य वर्तमानकालविषयमादत्ते यः स ऋजुसूत्रः । कोऽत्र वर्तमानकालः १ आरम्भात्प्रभृत्या उपरमादेष वर्तमानकालः । एष चानेकप्रकारः, अर्थ- व्यंजनपर्यायस्थितेरनेकविधत्वात् । तत्र तावच्छुद्धऋजुसूत्रविषयः प्रदश्यते - पच्यमानः पक्वः । पक्वस्तु स्यात्पच्यमानः स्यादुपरतपाक इति । पच्यमान इति वर्तमानः पक्व इति अतीतः, तयोरेकस्मिन्नवरोधो विरुद्ध इति चेन्न, पचनप्रारम्भप्रथमसमये पाकांशानिष्पत्तौ द्वितीयादिक्षणेषु प्रथमलक्षण इव पाकांश
प्रहण करता है वह ऋजुसूत्र नय है ।
शंका- यहां वर्तमान कालका क्या स्वरूप है ?
समाधान - विवक्षित पर्यायके प्रारम्भकाल से लेकर उसका अन्त होने तक जो काल यह वर्तमान काल है ।
अर्थ और व्यञ्जन पर्यायोंकी स्थिति के अनेक प्रकार होनेसे यह काल अनेक प्रकार है । उसमें पहिले शुद्ध ऋजुसूत्र नयके विषयको दिखलाते हैं - इस नयका विषय पच्यमान -पक्व है | पक्वका अर्थ कथंचित् पकनेवाला और कथंचित् पका हुआ है ।
शंका- चूंकि 'पच्यमान' यह पचन क्रियाके चालू रहने अर्थात् वर्तमान कालको और 'पक्व' यह उसके पूर्ण होने अर्थात् भूत कालको सूचित करता है अतः उन दोनोंका एक में रखना विरुद्ध है ?
समाधान- नहीं, क्योंकि, पचन क्रियाके प्रारम्भ होनेके प्रथम समय में पाकांशकी सिद्धि न होनेपर प्रथम क्षणके समान द्वितीयादि समयों में पाकांशकी सिद्धिका अभाव
१ ऋजु प्रगुणं सूत्रयति सूचयतीति ऋजुसूत्रः । अस्य विषयः पच्यमानः पक्त्रः । पक्वस्तु स्यात्पच्यमानः स्यादुपरतपाक इति । पच्यमान इति वर्तमानः, पक्त्र इत्यतीतः, तयोरेकस्मिन्नवरोघो विरुद्ध इति चेत् न, पाकप्रारम्भप्रथमक्षणे निष्पन्नांशेन पक्वत्वाविरोधात् । न च तत्र पाकस्य सर्वाशैरनिष्पत्तिरेव, चरमावस्थायामपि पाकनिष्पत्तेरभावप्रसंगात् । ततः पच्यमान एव पक्व इति सिद्धम् । तावन्मात्रक्रियाफलनिष्पत्त्युपरमापेक्षया स एव पक्वः स्मादुपरतपाक इति, अन्त्यपाकापेक्षया निष्पत्तेरभावात् एव पच्यमान इति सिद्धम् एवं क्रियमाणकृत भुज्यमानभुक्त-बध्यमानबद्ध-सिध्यत्सिद्धादयो योज्याः । जयध. १, पृ. २२३. सूत्रपातवद् ऋजुसूत्रः । यथा ऋजुः सूत्रपातस्तथा ऋजु प्रगुणं सूत्रयति तंत्रयति ऋजुसूत्रः । सर्वास्त्रिकाल विषयानतिशय्य वर्तमानविषयकालमादत्ते xxx अस्य विषयः पच्यमानः पक्वः । पक्त्रस्तु स्यात्पच्यमानः स्यादुपरतपाक इति । असदेतद्विरोधात् (?) । पच्यमान इति वर्तमानः, पक्त्र इत्यतीतः, तयोरेकस्मिन्नवरोधो विरोधीति ? नैष दोषः, पचनस्यादावविभागसमये कश्चिदशो निर्वृत्तो बा न वा ? यदि न निर्वृत्तस्तद्वितीयादिष्वप्यनिर्वृतेः पाकाभावः स्यात् । ततोऽभिनिर्वृत्तेस्तदपेक्षया पच्यमानः पक्वः, इतरथा हि समयस्य त्रैविध्यप्रसंगः। स एवोदनः पच्यमानः पक्वः स्यात्पच्यमान इत्युच्यते पक्तुरभिप्रायस्यानिवृतेः । पक्तुर्हि सुविशद - सुस्विन्नौदने पक्वाभिप्रायः । स्यादुपरतपाक इति चोच्यते, कस्यचित् पक्तुस्तावतैव कृतार्थत्वात् । एवं क्रियमाणकृत- भुज्यमानमुक्त- बध्यमानबद्ध - सिध्यत् सिद्धादयो योज्याः । त. रा. १, ३३, ७, २ प्रतिषु पाकांश निष्पत्तौ ' इति पाठः ।
<
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org