________________
११४
[काव्यानुशासनम्
यथा च
ते दृष्टिमात्रपतिता अपि कस्य नात्र
क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । ... नीचाः सदैव सविलासमलीकलग्ना
ये कालतां कुटिलतामिव न त्यजन्ति ॥१८२॥
यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया रसपर्यवसानं, तथापि स्फुटस्य रसस्यानुपलम्भादव्यनयमेतत्काव्यमुक्तम् ।
इत्याचार्यश्रीहेमचन्द्रविरचितायाम्-अलङ्कारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ
रसभावतदाभासकाव्यभेदप्रतिपादनो द्वितीयोऽध्यायः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org