Book Title: Kavyanushasanam
Author(s): Hemchandracharya, T S Nandi, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
३४४
[काव्यानुशासनम् १८४) स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाषसङ्करः किलिकिञ्चितम् ॥४१॥ सौभाग्यगर्वात् स्मितादीनां सङ्करः किलिकिञ्चितम् । यथा
रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकलकण्ठार्धमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितक्रुद्धोद्धान्तं पुनरपि विदध्यान्मयि मुखम् ॥७३२॥
[धनिकस्य, दशरूपकावलोके (प्र. २, सू. ३९)] १८५) प्रियकथादौ तद्भावभावनोत्था चेष्टा मोडायितम् ॥४२॥
प्रियस्य कथायां दर्शने वा तद्भावभावनं तन्मयत्वम् । ततो योद्भूता चेष्टा लीलादिका सा १० मदनाङ्गपर्यन्ताङ्गमोटनान्मोडायितम् । यथा
स्मरदवथुनिमित्तं गूढमन्वेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः । हरति विनतपृष्ठोदग्रपीनस्तनाग्रा नतवलयितबाहुजृम्भितैः साङ्गभङ्गैः ॥७३३॥
[धनिकस्य, दशरूपकावलोके (प्र. २, सू. ४०)] १८६) अधरादिग्रहाद् दुःखेऽपि हर्षः कुट्ट (? दृ)मितम् ॥४३॥ अधरस्तनकेशादीनां ग्रहणात् । प्रियतमेनेति शेषः । दुःखेऽपि हर्षः कुटुं(? दृ)मितम् । यथा
ईषन्मीलितलोललोचनयुगं व्यावर्तितभूलतं संदष्टाधरवेदनाप्रलपितं मा मेति मन्दाक्षरम् । तन्वङ्ग्याः सुरतावसानसमये दृष्टं मया यन्मुखम्
स्वेदार्टीकृतपाण्डुगण्डपुलकं तत् केन विस्मार्यते ॥७३४॥ [ १८७) मसृणोऽङ्गन्यासो ललितम् ॥४४॥ अङ्गानां हस्तपादभ्रूनेत्राधरादीनां मसृणः सुकुमारो विन्यासो ललितम् । यथा
सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरपा(या ?)तैनिःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥७३५।।
[धनिकस्य, दशरूपकावलोके प्र. २, सू. ४१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548