Book Title: Kavyanushasanam
Author(s): Hemchandracharya, T S Nandi, Jitendra B Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 487
________________ ३४८ [काव्यानुशासनम् कान्तिर्यथा उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥७४०।। वेणी० १.३] दीप्तिर्यथा आलोलामलकावली विलुलितां बिभ्रच्चलत्कुण्डलं किञ्चिन्मृष्टविशेषकं तनुतरैः स्वेदाम्बुनः शीकरैः । तन्व्या यत् सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतैः ॥७४१॥ [अमरु० ३] १९२) चेष्टामसृणत्वं माधुर्यम् ॥४९॥ ललितेषु व्रीडादिषु यथा मसृणत्वं चेष्टायास्तथा दीप्तेष्वपि क्रोधादिषु यत्तन्माधुर्यम् । यथा कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमत्या नतिमति । न दृष्टेः शैथिल्यं मिलत इति चेतो दहति में निगूढान्तःकोपा कठिनहृदये संवृतिरियम् ॥७४२।। [अमरु० १४] १९३) अचापलाविकत्थनत्वे धैर्यम् ॥५०॥ चापलानुपहतत्वमात्मगुणानाख्यानं च धैर्यम् । यथा ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयित: श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥७४३।। [मालतीमाधव २.२] २० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548