________________
३४८
[काव्यानुशासनम् कान्तिर्यथा
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥७४०।।
वेणी० १.३] दीप्तिर्यथा
आलोलामलकावली विलुलितां बिभ्रच्चलत्कुण्डलं किञ्चिन्मृष्टविशेषकं तनुतरैः स्वेदाम्बुनः शीकरैः । तन्व्या यत् सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतैः ॥७४१॥
[अमरु० ३] १९२) चेष्टामसृणत्वं माधुर्यम् ॥४९॥ ललितेषु व्रीडादिषु यथा मसृणत्वं चेष्टायास्तथा दीप्तेष्वपि क्रोधादिषु यत्तन्माधुर्यम् । यथा
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमत्या नतिमति । न दृष्टेः शैथिल्यं मिलत इति चेतो दहति में निगूढान्तःकोपा कठिनहृदये संवृतिरियम् ॥७४२।।
[अमरु० १४] १९३) अचापलाविकत्थनत्वे धैर्यम् ॥५०॥ चापलानुपहतत्वमात्मगुणानाख्यानं च धैर्यम् । यथा
ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयित: श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥७४३।।
[मालतीमाधव २.२]
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org