Book Title: Kavyanushasanam
Author(s): Hemchandracharya, T S Nandi, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 507
________________ ३६८ [काव्यानुशासनम् २०७) पञ्चादिभिश्चतुर्दशान्तैः कुलकम् ॥१२॥ छन्दोभिरिति वर्तते । मुक्तकानामेकप्रघट्टकोपनिबन्धः पर्या । अवान्तरवाक्यसमाप्तावपि वसन्तायेकवर्णनीयोद्देशेन मुक्तकानामुपनिबन्धः पर्या । सा कोशेषु प्रचुरं दृश्यते । २०८) स्वपरकृतसूक्तिसमुच्चयः कोशः ॥१३॥ ____ यथा सप्तशतकादिः । एकप्रघट्टके एककविकृतः सूक्तिसमुदायो वृन्दावनमेघदूतादिः संघातः । विप्रकीर्णवृत्तान्तानामेकत्र सन्धानं यदुवंशदिलीपवंशादिवत् संहिता । एवमनन्तोऽनिबद्धगणः । स आदिग्रहणेन गृह्यते । इह च सत्सन्धित्वं शब्दार्थवैचित्र्ययोगश्च महाकाव्यवदाख्यायिकाकथाचम्पूष्वपि द्रष्टव्यः ।। इति-आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तावष्टमोध्यायः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548