________________
३६८
[काव्यानुशासनम् २०७) पञ्चादिभिश्चतुर्दशान्तैः कुलकम् ॥१२॥
छन्दोभिरिति वर्तते । मुक्तकानामेकप्रघट्टकोपनिबन्धः पर्या । अवान्तरवाक्यसमाप्तावपि वसन्तायेकवर्णनीयोद्देशेन मुक्तकानामुपनिबन्धः पर्या । सा कोशेषु प्रचुरं दृश्यते ।
२०८) स्वपरकृतसूक्तिसमुच्चयः कोशः ॥१३॥ ____ यथा सप्तशतकादिः । एकप्रघट्टके एककविकृतः सूक्तिसमुदायो वृन्दावनमेघदूतादिः संघातः । विप्रकीर्णवृत्तान्तानामेकत्र सन्धानं यदुवंशदिलीपवंशादिवत् संहिता । एवमनन्तोऽनिबद्धगणः । स आदिग्रहणेन गृह्यते ।
इह च सत्सन्धित्वं शब्दार्थवैचित्र्ययोगश्च महाकाव्यवदाख्यायिकाकथाचम्पूष्वपि द्रष्टव्यः ।।
इति-आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तावष्टमोध्यायः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org