Book Title: Kavyanushasanam
Author(s): Hemchandracharya, T S Nandi, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
३६२
[काव्यानुशासनम् आदिग्रहणात् शम्पाच्छलितद्विपद्यादिपरिग्रहः । प्रपञ्चस्तु ब्रह्मभरतकोहलादिशास्त्रेभ्योऽवगन्तव्यः । प्रेक्ष्यमुक्त्वा श्रव्यमाह२००) श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च ॥५॥ एतान् क्रमेण लक्षयति२०१) पद्यं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्धभिन्नान्त्यवृत्तसर्गाश्वास___संध्यवस्कन्धकबन्धं सत्सन्धि शब्दार्थवैचित्र्योपेतं महाकाव्यम् ॥६॥
छन्दोविशेषरचितं प्राय: संस्कृतादिभाषानिबद्धैर्भिन्नान्त्यवृत्तैर्यथासंख्यं सर्गादिभिर्निर्मितं सुश्लिष्टमुखप्रतिमुखगर्भविमर्शनिर्वहणसंधिसुन्दरं शब्दार्थवैचित्र्योपेतं महाकाव्यम् । __ मुखादयः संधयो भरतोक्ता इमे
(६७) यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा । काव्ये शरीरानुगता तन्मुखं परिचक्षते ॥
[नाट्यशास्त्र १९.३९] बीजस्योद्धाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्धि प्रतिमुखं स्मृतम् ।।
[नाट्यशास्त्र १९.४०] उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा। पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥
[नाट्यशास्त्र १९.४१] गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा। क्रोधव्यसनजो वाऽपि स विमर्शः प्रकीर्तितः ॥
[नाट्यशास्त्र १९.४२] समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद् भवेनिर्वहणं तु तत् ॥इति।।
[नाट्यशास्त्र १९.४३] शब्दवैचित्र्यं यथा-असंक्षिप्तग्रन्थत्वम्, अविषमबन्धत्वम्, अनतिविस्तीर्णपरस्परसंबद्धसर्गादित्वम्, आशीर्नमस्कारवस्तुनिर्देशोपक्रमत्वम् वक्तव्यार्थप्रतिज्ञानतत्प्रयोजनोपन्यासकविप्रशंसादुर्जनसुजनस्वरूपवदादिवाक्यत्वम् दुष्करचित्रादिसर्गत्वम्, स्वाभिप्रायस्वनामेष्टनाममङ्गलाङ्कितसमाप्तित्वमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548