SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ३६२ [काव्यानुशासनम् आदिग्रहणात् शम्पाच्छलितद्विपद्यादिपरिग्रहः । प्रपञ्चस्तु ब्रह्मभरतकोहलादिशास्त्रेभ्योऽवगन्तव्यः । प्रेक्ष्यमुक्त्वा श्रव्यमाह२००) श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च ॥५॥ एतान् क्रमेण लक्षयति२०१) पद्यं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्धभिन्नान्त्यवृत्तसर्गाश्वास___संध्यवस्कन्धकबन्धं सत्सन्धि शब्दार्थवैचित्र्योपेतं महाकाव्यम् ॥६॥ छन्दोविशेषरचितं प्राय: संस्कृतादिभाषानिबद्धैर्भिन्नान्त्यवृत्तैर्यथासंख्यं सर्गादिभिर्निर्मितं सुश्लिष्टमुखप्रतिमुखगर्भविमर्शनिर्वहणसंधिसुन्दरं शब्दार्थवैचित्र्योपेतं महाकाव्यम् । __ मुखादयः संधयो भरतोक्ता इमे (६७) यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा । काव्ये शरीरानुगता तन्मुखं परिचक्षते ॥ [नाट्यशास्त्र १९.३९] बीजस्योद्धाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्धि प्रतिमुखं स्मृतम् ।। [नाट्यशास्त्र १९.४०] उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा। पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ [नाट्यशास्त्र १९.४१] गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा। क्रोधव्यसनजो वाऽपि स विमर्शः प्रकीर्तितः ॥ [नाट्यशास्त्र १९.४२] समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद् भवेनिर्वहणं तु तत् ॥इति।। [नाट्यशास्त्र १९.४३] शब्दवैचित्र्यं यथा-असंक्षिप्तग्रन्थत्वम्, अविषमबन्धत्वम्, अनतिविस्तीर्णपरस्परसंबद्धसर्गादित्वम्, आशीर्नमस्कारवस्तुनिर्देशोपक्रमत्वम् वक्तव्यार्थप्रतिज्ञानतत्प्रयोजनोपन्यासकविप्रशंसादुर्जनसुजनस्वरूपवदादिवाक्यत्वम् दुष्करचित्रादिसर्गत्वम्, स्वाभिप्रायस्वनामेष्टनाममङ्गलाङ्कितसमाप्तित्वमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy