SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ३४४ [काव्यानुशासनम् १८४) स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाषसङ्करः किलिकिञ्चितम् ॥४१॥ सौभाग्यगर्वात् स्मितादीनां सङ्करः किलिकिञ्चितम् । यथा रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकलकण्ठार्धमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितक्रुद्धोद्धान्तं पुनरपि विदध्यान्मयि मुखम् ॥७३२॥ [धनिकस्य, दशरूपकावलोके (प्र. २, सू. ३९)] १८५) प्रियकथादौ तद्भावभावनोत्था चेष्टा मोडायितम् ॥४२॥ प्रियस्य कथायां दर्शने वा तद्भावभावनं तन्मयत्वम् । ततो योद्भूता चेष्टा लीलादिका सा १० मदनाङ्गपर्यन्ताङ्गमोटनान्मोडायितम् । यथा स्मरदवथुनिमित्तं गूढमन्वेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः । हरति विनतपृष्ठोदग्रपीनस्तनाग्रा नतवलयितबाहुजृम्भितैः साङ्गभङ्गैः ॥७३३॥ [धनिकस्य, दशरूपकावलोके (प्र. २, सू. ४०)] १८६) अधरादिग्रहाद् दुःखेऽपि हर्षः कुट्ट (? दृ)मितम् ॥४३॥ अधरस्तनकेशादीनां ग्रहणात् । प्रियतमेनेति शेषः । दुःखेऽपि हर्षः कुटुं(? दृ)मितम् । यथा ईषन्मीलितलोललोचनयुगं व्यावर्तितभूलतं संदष्टाधरवेदनाप्रलपितं मा मेति मन्दाक्षरम् । तन्वङ्ग्याः सुरतावसानसमये दृष्टं मया यन्मुखम् स्वेदार्टीकृतपाण्डुगण्डपुलकं तत् केन विस्मार्यते ॥७३४॥ [ १८७) मसृणोऽङ्गन्यासो ललितम् ॥४४॥ अङ्गानां हस्तपादभ्रूनेत्राधरादीनां मसृणः सुकुमारो विन्यासो ललितम् । यथा सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरपा(या ?)तैनिःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥७३५।। [धनिकस्य, दशरूपकावलोके प्र. २, सू. ४१] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy