Book Title: Kavyanushasanam
Author(s): Hemchandracharya, T S Nandi, Jitendra B Shah
Publisher: L D Indology Ahmedabad
________________
२७२
[काव्यानुशासनम् अत्र क्वापि वस्तुनि विनष्टे विशेषात्मनि प्रस्तुते दैवस्वातन्त्र्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितम् ।
ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च । - ते बान्धवास्ते सुहृदो लोकः स्वार्थपरोऽपरः ।।५६३॥
१५
अत्र जरासंघः कार्यरूपां श्रद्धेयवचनतां प्रस्तुतामात्मनोऽभिव्यतुं सुहृद्वान्धवरूपत्वकारणमप्रस्तुतं वर्णयति ।
सगं अपारिआयं कुत्थुहलच्छिविरहिअं मसुमहस्स उरं । सुमरामि महणपुरओ अमुद्धयंदं च हरजडापब्भारं ॥५६४॥
___ [सेतुबन्ध ४.२०] १० अत्र जाम्बवान् वृद्धसेवाचिरजीवित्वव्यवहारकौशलादौ मन्त्रिताकारणे प्रस्तुते कौस्तुभलक्ष्मीविरहित__ हरिवक्षःस्मरणादिकमप्रस्तुतं कार्यं वर्णयति। तुल्ये प्रस्तुते तुल्यस्याभिधाने द्वौ प्रकारौ श्लिष्टविशेषणता सादृश्यमानं वा तुल्यान्तरस्याक्षेपहेतुः । यथा
नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचिदण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥५६५॥
[शार्ङ्गधरपद्धतौ] अत्राप्रस्ततेनाम्बुजेन तुल्यविशेषणबलात्तुल्यः सत्पुरुष आक्षिप्यते ।
आदाय वारि परितः सरितां मुखेभ्यः । किं तावदर्जितमनेन दुरर्णवेन ।
क्षारीकृतं च वडवावदने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥५६६॥
.. [औचित्यविचारचर्चायां (पृ. १३९) (भट्टेन्दुराजस्य] अत्रार्णवस्य गर्हणयाऽन्यायोपार्जितधनत्वादिप्रतीयमानसादृश्यः कश्चित् पुरुषविशेष आक्षिप्यते । २५ विशेष्यश्लिष्टता तु अन्योक्तिप्रयोजकतया न वाच्या । यथा
पुंस्त्वादपि प्रविचलेद् यदि यद्यधोऽपि यायाद् यदि प्रणयने न महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन ॥५६७।।
[भल्लट० ७९]
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548