SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ २७२ [काव्यानुशासनम् अत्र क्वापि वस्तुनि विनष्टे विशेषात्मनि प्रस्तुते दैवस्वातन्त्र्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितम् । ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च । - ते बान्धवास्ते सुहृदो लोकः स्वार्थपरोऽपरः ।।५६३॥ १५ अत्र जरासंघः कार्यरूपां श्रद्धेयवचनतां प्रस्तुतामात्मनोऽभिव्यतुं सुहृद्वान्धवरूपत्वकारणमप्रस्तुतं वर्णयति । सगं अपारिआयं कुत्थुहलच्छिविरहिअं मसुमहस्स उरं । सुमरामि महणपुरओ अमुद्धयंदं च हरजडापब्भारं ॥५६४॥ ___ [सेतुबन्ध ४.२०] १० अत्र जाम्बवान् वृद्धसेवाचिरजीवित्वव्यवहारकौशलादौ मन्त्रिताकारणे प्रस्तुते कौस्तुभलक्ष्मीविरहित__ हरिवक्षःस्मरणादिकमप्रस्तुतं कार्यं वर्णयति। तुल्ये प्रस्तुते तुल्यस्याभिधाने द्वौ प्रकारौ श्लिष्टविशेषणता सादृश्यमानं वा तुल्यान्तरस्याक्षेपहेतुः । यथा नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचिदण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥५६५॥ [शार्ङ्गधरपद्धतौ] अत्राप्रस्ततेनाम्बुजेन तुल्यविशेषणबलात्तुल्यः सत्पुरुष आक्षिप्यते । आदाय वारि परितः सरितां मुखेभ्यः । किं तावदर्जितमनेन दुरर्णवेन । क्षारीकृतं च वडवावदने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥५६६॥ .. [औचित्यविचारचर्चायां (पृ. १३९) (भट्टेन्दुराजस्य] अत्रार्णवस्य गर्हणयाऽन्यायोपार्जितधनत्वादिप्रतीयमानसादृश्यः कश्चित् पुरुषविशेष आक्षिप्यते । २५ विशेष्यश्लिष्टता तु अन्योक्तिप्रयोजकतया न वाच्या । यथा पुंस्त्वादपि प्रविचलेद् यदि यद्यधोऽपि यायाद् यदि प्रणयने न महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन ॥५६७।। [भल्लट० ७९] ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy