Book Title: Kavyanushasanam
Author(s): Hemchandracharya, T S Nandi, Jitendra B Shah
Publisher: L D Indology Ahmedabad
________________
३२०
[काव्यानुशासनम् संभाषणं यथा
उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः शौर्यं यत्तु न तद्रािं पथि न तु(?ननु) व्यक्तं यतः कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः सत्यब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥६९०॥
[महावीर० २.३६] १५३) पराधिक्षेपाद्यसहनं तेजः ॥१०॥ पराच्छत्रोर्न तु गुरोर्मित्रादेर्वाधिपेक्षापमानादेरसहनं तेजः । यथा
ब्रूत नूतनकुष्माण्डफलानां के भवन्त्यमी । अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः ॥६९१॥
[
नायकभेदानाह१५४) धीरोदात्तललितशान्तोद्धतभेदात् स चतुर्धा ॥११॥
स इति नायकः । धीरशब्दः प्रत्येकमभिसंबध्यते । तेन धीरोदात्तो धीरललितो धीरशान्तो धीरोद्धत १५ इति । दक्षिणधृष्टानुकूलशठभेदादेकैकश्चतुर्धा । एते शृङ्गाररसाश्रयिणो भेदाः । इति षोडशभेदा नायकस्य ।
धीरोदात्तादौल्लक्षयति१५५) गूढगर्वः स्थिरो धीरः क्षमावानविकत्थनो महासत्त्वो दृढव्रतो धीरोदात्तः ॥१२॥
गूढगर्वो विनयच्छन्नावलेपोऽविकत्थनोऽनात्मश्लाघापरः । महासत्त्वः क्रोधाद्यनभिभूतान्तस्सत्त्वः दृढव्रतोऽङ्गीकृतनिर्वाहकः । यथा रामादिः । २० १५६) कलासक्तः सुखी शृङ्गारी मृदुनिश्चिन्तो धीरललितः ॥१३॥
कलासु गीताद्यास्वासक्तः । सुखी भोगप्रवणः शृङ्गारप्रधानः सुकुमाराकारः । सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः, यथा वत्सराजः ।
१५७) विनयोपशमवान् धीरशान्तः ॥१४॥
यथा मालतीमाधवमृच्छकटिकादौ माधवचारुदत्तादिः । २५ १५८) शूरो मत्सरी मायी विकत्थनश्छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः ॥१५॥
मत्सरी असहनः । मन्त्रादिबलेनाविद्यमानवस्तुप्रकाशको मायी। छद्म वञ्चनमात्रम् । रौद्रश्चण्डः । अवलिप्तः शौर्यादिमदवान् । यथा जामदग्न्यरावणादिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548