SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ३२० [काव्यानुशासनम् संभाषणं यथा उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः शौर्यं यत्तु न तद्रािं पथि न तु(?ननु) व्यक्तं यतः कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः सत्यब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥६९०॥ [महावीर० २.३६] १५३) पराधिक्षेपाद्यसहनं तेजः ॥१०॥ पराच्छत्रोर्न तु गुरोर्मित्रादेर्वाधिपेक्षापमानादेरसहनं तेजः । यथा ब्रूत नूतनकुष्माण्डफलानां के भवन्त्यमी । अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः ॥६९१॥ [ नायकभेदानाह१५४) धीरोदात्तललितशान्तोद्धतभेदात् स चतुर्धा ॥११॥ स इति नायकः । धीरशब्दः प्रत्येकमभिसंबध्यते । तेन धीरोदात्तो धीरललितो धीरशान्तो धीरोद्धत १५ इति । दक्षिणधृष्टानुकूलशठभेदादेकैकश्चतुर्धा । एते शृङ्गाररसाश्रयिणो भेदाः । इति षोडशभेदा नायकस्य । धीरोदात्तादौल्लक्षयति१५५) गूढगर्वः स्थिरो धीरः क्षमावानविकत्थनो महासत्त्वो दृढव्रतो धीरोदात्तः ॥१२॥ गूढगर्वो विनयच्छन्नावलेपोऽविकत्थनोऽनात्मश्लाघापरः । महासत्त्वः क्रोधाद्यनभिभूतान्तस्सत्त्वः दृढव्रतोऽङ्गीकृतनिर्वाहकः । यथा रामादिः । २० १५६) कलासक्तः सुखी शृङ्गारी मृदुनिश्चिन्तो धीरललितः ॥१३॥ कलासु गीताद्यास्वासक्तः । सुखी भोगप्रवणः शृङ्गारप्रधानः सुकुमाराकारः । सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः, यथा वत्सराजः । १५७) विनयोपशमवान् धीरशान्तः ॥१४॥ यथा मालतीमाधवमृच्छकटिकादौ माधवचारुदत्तादिः । २५ १५८) शूरो मत्सरी मायी विकत्थनश्छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः ॥१५॥ मत्सरी असहनः । मन्त्रादिबलेनाविद्यमानवस्तुप्रकाशको मायी। छद्म वञ्चनमात्रम् । रौद्रश्चण्डः । अवलिप्तः शौर्यादिमदवान् । यथा जामदग्न्यरावणादिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy